This page has been fully proofread twice.

भाविकालंकारः ९४
 
भाविकं भूतभाव्यर्थसाक्षात्कारस्य वर्णनम् ।
अहं विलोकयेऽद्यापि युध्यन्तेऽत्र सुरासुराः ॥ १६१ ॥
 
स्थानभीषणोद्भावनपरमिदम् । यथावा --
 
अद्यापि तिष्ठति दृशोरिदमुत्तरीयं
धर्तुं पुरः स्तनतटात्पतितं प्रवृत्ते ।
वाचं निशम्य नयनं नयनं ममेति
किंचित्तदा यदकरोत्स्मितमायताक्षी ॥ १६१ ॥
 
--------------
 
उदात्तालंकारः ९५
 
उदात्त[‍^१]मृद्धेश्वरितं श्लाघ्यं चान्योपलक्षणम् ।
सानौ [^२]यस्याभवद्युद्धं तद्धूर्जटिकिरीटिनोः ॥ १६२ ॥
 
इदं श्लाघ्यचरितस्यान्याङ्गत्वे उदाहरणम् । ऋध्युदाहरणं यथा --
 
रत्नस्तम्भेषु संक्रा[^३]न्तैः प्रतिबिम्बशतैर्वृतः ।
ज्ञातो लंकेश्वरः कृच्छ्रादाञ्जनेयेन तत्त्वतः ॥ १६२ ॥
 
-------------
 
अत्युक्त्यलंकारः ९६
 
अत्युक्तिरद्भुतातथ्य[^४]शौर्यौदार्यादिवर्णनम् ।
त्वयि दातरि राजेन्द्र [^५]याचकाः कल्पशाखिनः ॥१६३॥
 
[commentary]
 
स्वभाववर्णनमत्र सलज्जक्रियास्वभाववर्णनमिति भेदः ॥ १६० ॥ इति स्वभावोक्त्यलंकारः ॥ ९३ ॥
 
भाविकमिति लक्ष्य निर्देशः ॥ अद्यापीति ॥ मम नयनं नयनमिति तस्या वाचं निशम्य स्तनतटात्पतितमुत्तरीयं धर्तु पुरः प्रवृत्ते मयि सति तदा आयताक्षी यत्किंचित्स्मितमकरोत् । इदमद्यापि मम दृशोः पुरस्तिष्ठतीत्यन्वयः । अत्र नयनपदेन स्ववाचकत्वरूपशक्यसम्बन्धेन नेत्रपदं लक्ष्यते तस्माच्च वस्त्रप्रतीतिः । किंवा स्ववाचकवाच्यत्वरूपशक्य सम्बन्धेन वस्त्रमेव लक्षयतीति वचोबाणैरित्यादिवल्लक्षितलक्षणा वा वोध्या । 'नेत्रं पथि गुणे वस्त्रे' इति विश्वः ॥ १६१ ॥ इति भाविकालंकारः ॥ ९४ ॥
 
उदात्तमिति ॥ ऋद्धेः समृद्धेश्चरितमुदात्तमलंकारः । तथा श्लाघ्यं चरितम् । अन्यस्योपलक्षणमङ्गं चेत्तदपि तथा । सानौ शिखरे । यस्य पर्वतस्य । किरीटी अर्जुनः । कृच्छ्रात्कष्टात् । आञ्जनेयेन हनूमता ॥ १६२ ॥ इत्युदात्तालंकारः ॥९५॥ अत्युक्तिरिति लक्ष्यनिर्देशः । अद्भुतं च तदतथ्यं मिथ्यारूपम् । अकूपाराः
 
[^१] 'समृद्धिं च'.
[^२] 'यत्राभवत् '.
[^३] 'सक्रान्तः'.
[^४] 'तथ्यं '.
[^५] 'याजका:काः.