This page has been fully proofread once and needs a second look.

१६४
 
कुवलयानन्दः । [ अत्युक्त्यलंकारः ९६
 
भाविकालंकारः ९४
 

 
भाविकं भूतभाव्यर्थसाक्षात्कारस्य वर्णनम् ।

अहं विलोकयेऽद्यापि युध्यन्तेऽत्र सुरासुराः ॥ १६१ ॥
 
plish
 
-
 

 
स्थानभीषणोद्भावनपरमिदम् । यथावा-
--
 
अद्यापि तिष्ठति दृशोरिदमुत्तरीयं

धर्तुं पुरः स्तनतटात्पतितं प्रवृत्ते ।

वाचं निशम्य नयनं नयनं ममेति
 

किंचित्तदा यदकरोत्स्मितमायताक्षी ॥ १६१ ॥
 

 
--------------
 
उदात्तालंकारः ९५

 
उदात्तंत[‍^१]मृद्धेश्वरितं श्लाघ्यं चान्योपलक्षणम् ।

सानौ [^२]यस्याभवयुद्धं तद्धूर्जटिकिरीटिनोः ॥ १६२ ॥
 

 
इदं श्लाघ्यचरितस्यान्याङ्गत्वे उदाहरणम् । ऋध्युदाहरणं यथा-
--
 
रत्नस्तम्भेषु संक्राँरा[^३]न्तैः प्रतिबिम्बशतैर्वृतः ।

ज्ञातो लंकेश्वरः कृच्छ्रादाञ्जनेयेन तत्त्वतः ॥ १६२ ॥
 

 
-------------
 
अत्युक्त्यलंकारः ९६

 
अत्युक्तिरद्भुतातथ्य[^४]शौर्यौदार्यादिवर्णनम् ।

त्वयि दातरि राजेन्द्र [^५]याचकाः कल्पशाखिनः ॥१६३॥
 

 
[commentary]
 
स्वभाववर्णनमत्र सलज्जक्रियास्वभाववर्णन मिति भेदः ॥ १६० ॥ इति स्वभावो-
क्त्यलंकारः ॥ ९३ ॥
 

 
भाविक मिति लक्ष्य निर्देशः ॥ अद्यापीति ॥ मम नयनं नयनमिति तस्या
वाचं निशम्य स्तनतटात्पतितमुत्तरीयं धर्तु पुरः प्रवृत्ते मयि सति तदा आय-
ताक्षी यत्किंचित्स्मितमकरोत् । इदमद्यापि मम दृशोः पुरस्तिष्ठतीत्यन्वयः । अत्र
नयनपदेन स्ववाचकत्वरूपशक्य संसम्बन्धेन नेत्रपदं लक्ष्यते तस्माच्च वस्त्रप्रतीतिः ।
किंवा स्ववाचकवाच्यत्वरूपशक्य संसम्बन्धेन वस्त्रमेव लक्षयतीति वचोबाणैरित्या-
दिवल्लक्षितलक्षणा वा वोध्या । 'नेत्रं पथि गुणे वस्त्रे' इति विश्वः ॥ १६१ ॥
इति भाविकालंकारः ॥ ९४ ॥
 

 

 
उदात्तमिति ॥ ऋद्धेः समृद्धेश्चरितमुदात्तमलंकारः । तथा श्लाघ्यं चरितम् ।
अन्यस्योपलक्षणमङ्गं चेत्तदपि तथा । सानौ शिखरे । यस्य पर्वतस्य । किरीटी
अर्जुनः । कृच्छ्रात्कष्टात् । आञ्जनेयेन हनूमता ॥ १६२ ॥ इत्युदात्तालंकारः ॥९५॥
अत्युक्तिरिति लक्ष्यनिर्देशः । अद्भुतं च तदतथ्यं मिथ्यारूपम् । अकूपाराः
 

 
[^१]
'समृद्धिं च'.
[^
]'यत्राभवत् '.
[^
]' सक्रान्तः'
[^
]'तथ्यं '
[^
]'याजका: '.