This page has been fully proofread twice.

बाले कच्चिन्न दृष्टो जरठवृषपतिर्गोप एवास्य वेत्ता
लीलासंलाप इत्थं जलनिधिहिमवत्कन्ययोस्त्रायतां नः ॥
 
काक्वा यथा --
 
असमालोच्य कोपस्ते नोचितोऽयमि[^१]तीरिता ।
नैवोचितोऽयमिति तं ताडयामास मालया ॥
 
अत्र नैवोचित इति काकुस्वरविकारेणोचित एवेत्यर्थान्तरकल्पनम् ॥ १५९ ॥
 
----------------
 
स्वभावोक्त्यलंकारः ९३
 
स्वभावोक्तिः स्वभावस्य जात्यादिस्थस्य वर्णनम् ।
कुरङ्गैरुत्तरङ्गाक्षैः स्तब्धकर्णैरु[^२]दीक्ष्यते ॥ १६० ॥
 
यथावा --
 
तौ संमुखप्रचलितौ सविधे गुरूणां
मार्गप्रदानरभसस्खलितावधानौ ।
पार्श्वोपसर्पणमुभावपि भिन्नदिक्कं
कृत्वा मुहुर्मुहुरूरुपासरतां सलज्जम् ॥ १६० ॥
 
----------------

 
[commentary]
 
लक्ष्म्या वाक्यम् । लेर्दैत्यस्य मखे यज्ञे इति वामनाभिप्रायं पार्वत्याः । भद्रे शोभने, ताण्डवं नृत्यमद्य क्व वर्तत इति लक्ष्मीप्रश्नस्योत्तरं । वृन्दावनस्यान्ते मध्ये इति श्रीकृष्णाभिप्रायम् । मृगशिशुर्महादेवेन करे धृतः 'परशुमृगवराभीतिहस्तं प्रसन्नम्' इति ध्यानश्रवणात् । इदं लक्ष्म्या वाक्यं । नैवेति पार्वत्याः । 'मृगः पशौ कुरङ्गे च' इति विश्वः । कच्चिदिति प्रश्ने । जरठो जीर्णः वृषपतिवृषश्रेष्ठ इति हरवृषभाभिप्रायं लक्ष्मीवाक्यम् । गोपो गवां पालक इति कृष्णाभिप्रायमुत्तरमिति । अत्र भिक्षादिपदानां परिवृत्तिसहत्वादर्थश्लेषमूलत्वम् ॥ असमालोच्येति ॥ अविचार्येत्यर्थः । मालया पुष्पमालया । 'भिक्षुः क्वास्ति बलेर्मखे पशुपतिः क्वास्ते परं गोकुले क्वास्ते पन्नगभूषणः सखि सदा शेते च शेषोपरि । मुग्धे मुञ्च विषादमेनमधुना नाहं प्रकृत्या चलास्मीत्येवं गिरिजासमुद्रतनयाहास्योद्गमः पातु वः ॥ 'अस्मिन्नपि पद्येऽयमेवालंकारः ॥ १५९ ॥ इति वक्रोक्त्यलंकारः ॥ ९२ ॥
 
स्वभावोक्तिरिति लक्ष्यनिर्देशः । जात्यादिस्थस्य जात्यादिसंबन्धिनः । आदिपदेन क्रियादिपरिग्रहः । उत्तरङ्गाणि तरङ्गायमाणान्यक्षीणि येषां तैः ॥ ताविति ॥ तौ प्रक्रान्तौ वधूवरौ गुरूणां सविधे अन्योन्याभिमुखं प्रचलितौ परस्परस्य मार्गप्रदाने यो रभसो वेगस्तेन स्खलितं भ्रष्टमवधानं सावधानत्वं ययोस्तादृशावुभावपि भिन्नदिक्कं वामदक्षिणरूपदिक्संबन्धि परस्परपार्श्वभागोपसर्पणं मुहुर्मुहुः कृत्वा सलज्जं यथा स्यात्तथोपसरतां उपसर्पणं चक्रतुरित्यर्थः । पूर्वोदाहरणे कुरङ्गजाति-
 
[^१] 'तीरितम्'.
[^२] 'रुदीक्षितम्'.