This page has been fully proofread twice.

श्रीः ।
 
श्रीमदप्पय्यदीक्षितविरचितः
 
कुवलयानन्दः ।
 
अलंकारचन्द्रिकाख्यव्याख्यासमेतः ।
 
श्रीगणेशाय नमः ।
 
अमरीकबरीभारभ्रमरीमुखरीकृतम् ।
दूरीकरोतु दुरितं गौरीचरणपङ्कजम् ॥ १ ॥
 
परस्परतपःसंपत्फलायितपरस्परौ ।
प्रपञ्चमातापितरौ प्राञ्चौ जायापती स्तुमः ॥२॥
 
 
[Commentary]
 
अलंकारचन्द्रिका ।
 
अनुचिन्त्य महालक्ष्मीं हरिलोचनचन्द्रिकाम् ।
कुर्वे कुवलयानन्दसदलंकारचन्द्रिकाम् ॥ १ ॥
 
चिकीर्षिताविघ्नसिद्धय इष्टदेवतां स्तौति -- अमरीति ॥ अत्र चरणमेव पङ्कजमिति मयूरव्यंसकादिसमासाश्रयणात्परिणामालंकारः । चरण आरोप्यमाणस्य
पङ्कजस्यारोपविषयचरणात्मतापरिणतिं विना दुरितदूरीकरणक्रियार्थत्वासंभवात् । 'परिणामः क्रियार्थश्चेद्विषयी विषयात्मना' इति तल्लक्षणात् । नच पङ्कजमिव चरणमिति पूर्वपदार्थप्रधान उपमितसमास एवास्त्विति शङ्कयम् । अमरीणां कबरीभारस्य केशपाशस्य संबन्धिनी सौगन्ध्यलोभात्तत्संसृष्टा या भ्रमरी तया मुखरीकृतमिति विशेषणस्यानुगुण्याभावात्तस्य पङ्कजगतत्वेनैव प्रसिद्धेरिति । एतद्विशेषणावगतेन च पादपतनेनाभिव्यज्यमाना गौरीविषया सुराङ्गनागता रतिः कविगता तां पुष्णातीति प्रेयोलंकारोऽपि बोध्यः ॥ १ ॥ परस्परेति ॥ प्राञ्चौ पुरातनौ जायापती अर्थादुमामहेश्वरौ स्तुमः । किंभूतौ । प्रपञ्चस्य जीववर्गस्य मातापितृरूपौ निरुपधिकृपाश्रयत्वाद्धितोपदेष्टृत्वाच्च । तथा परस्परसंबन्धिन्यास्तपःसंपत्तेः फलवदाचरितं परस्परखरूपं ययोस्तौ । अत्र परशब्दस्य क्रियाविनिमयविवक्षायां 'कर्मव्यतिहारे सर्वनाम्नो द्वे वाच्ये' इति वार्तिकेन द्विर्भावे असमासवद्भावे 'पूर्वपदस्थस्य सुपः सुर्वक्तव्यः' इत्यनेन सुपः स्वादेशे च परस्परशब्दव्युत्पत्तेः पार्वतीतपःसमृद्धिफलायितः परमेश्वरः परमेश्वरतपःसंपत्फलायिताच पार्वतीत्यर्थो लभ्यते । तपःसंपत्तेश्च फलं निरतिशयानन्द इति तदुपमया परस्परं परमप्रेमास्पदत्वलक्षणः शृङ्गारो व्यज्यमानः सौभाग्यातिशयव्यञ्जनमुखेन शिवयोर्भावप्रकर्षे पर्यव-