This page has been fully proofread once and needs a second look.

श्रीः ।

 
श्रीमदप्पय्यदीक्षितविरचितः
 

 
कुवलयानन्दः ।
 

 
अलंकारचन्द्रिकाख्यव्याख्यासमेतः ।

 
श्रीगणेशाय नमः ।
 

 
अमरीकबरीभारभ्रमरीमुखरीकृतम् ।

दूरीकरोतु दुरितं गौरीचरणपङ्कजम् ॥ १ ॥
 

 
परस्परतपःसंपत्फलायितपरस्परौ ।

प्रपञ्चमातापितरौ प्राञ्चौ जायापती स्तुमः ॥२॥
 

 
 
[Commentary]
 
अलंकारचन्द्रिका ।
 

 
अनुचिन्त्य महालक्ष्मीमीं हरिलोचनचन्द्रिकाम् ।

कुर्वे कुवलयानन्दसदलंकारचन्द्रिकाम् ॥ १ ॥
 
-
 

 
चिकीर्षिता विघ्न सिद्धय इष्टदेवतां स्तौति -- अमरीति ॥ अत्र चरणमेव पङ्क-
जमिति मयूरव्यंसकादिसमासाश्रयणात्परिणामालंकारः । चरण आरोप्यमाणस्य

पङ्कजस्यारोपविषयचरणात्मतापरिणतिं विना दुरितदूरीकरणक्रियार्थत्वासंभवात् ।
'परिणामः क्रियार्थश्चेद्विषयी विषयात्मना' इति तल्लक्षणात् । नच पङ्कजमिव चर-
णमिति पूर्वपदार्थप्रधान उपमितसमास एवास्त्विति शङ्कयम् । अमरीणां कबरी-
भारस्य केशपाशस्य संबन्धिनी सौगन्ध्यलोभात्तत्संसृष्टा या भ्रमरी तया मुखरी-
कृतमिति विशेषणस्यानुगुण्याभावात्तस्य पङ्कजगतत्वेनैव प्रसिद्धेरिति । एतद्विशेष-
णावगतेन च पादपतनेनाभिव्यज्यमाना गौरीविषया सुराङ्गनागता रतिः कविगता
तां पुष्णातीति प्रेयोलंकारोऽपि बोध्यः ॥ १ ॥ परस्परेति ॥ प्राञ्चौ पुरातनौ
जायापती अर्थादुमामहेश्वरौ स्तुमः । किंभूतौ । प्रपञ्चस्य जीववर्गस्य मातापितृ-
रूपौ निरुपधिकृपाश्रयत्वाद्विधितोपदेष्टृत्वाच्च । तथा परस्परसंबन्धिन्यास्तपःसंपत्तेः
फलवदाचरितं परस्परखरूपं ययोस्तौ । अत्र परशब्दस्य क्रियाविनिमय विवक्षायां
'कर्मव्यतिहारे सर्वनाम्नो द्वे वाच्ये' इति वार्तिकेन द्विर्भावे असमासवद्भावे 'पूर्व-
पदस्थस्य सुपः सुर्वक्तव्यः' इत्यनेन सुपः खास्वादेशे च परस्परशब्दव्युत्पत्तेः पार्वती-
तपःसमृद्धिफलायितः परमेश्वरः परमेश्वरतपःसंपत्फलायिताच पार्वतीत्यर्थो ल-
भ्यते । तपःसंपत्तेश्च फलं निरतिशयानन्द इति तदुपमया परस्परं परमप्रेमास्पदत्व-
लक्षणः शृङ्गारो व्यज्यमानः सौभाग्यातिशयव्यञ्जनमुखेन शिवयोर्भावप्रकर्षे पर्यव
 
-