This page has been fully proofread twice.

लिनीमिमामपहाय धनलिप्सया प्रस्थितो रसानभिज्ञत्वाद्गोप्राय एव । तस्य निवर्तकस्तु धनस्य जेता धनेनाकृष्टस्य तद्विमुखीकरणेन प्रत्याक्षेपकत्वादित्यर्थान्तरमपि गर्भितम् ॥ १५८ ॥
 
---------------
 
वक्रोक्त्यलंकारः ९२
 
वक्रोक्तिः श्लेषकाकुभ्या[^१]मपरार्थप्रकल्पनम् ।
मुञ्च मानं दिनं प्राप्तं नेह नन्दी हरान्तिके ॥ १५९ ॥
 
अत्र मानं मुञ्च प्रयाता रात्रिरित्याशयेनोक्तायां वाचि नन्दिनं प्राप्तं मा मुञ्चेत्यर्थान्तरं श्लेषेण परिकल्पितम् । यथावा --
 
अहो केनेदृशी बुद्धिर्दारुणा तव निर्मिता ।
त्रिगुणा श्रूयते बुद्धिर्न तु दारुमयी क्वचित् ॥
 
इदमविकृतश्लेषोक्तेरुदाहरणम् । विकृतश्लेषवक्रोक्तेर्यथा --
 
भवित्री रम्भोरु त्रिदशवदनग्लानिरधुना
स ते रामः स्थाता न युधि पुरतो लक्ष्मणसखः ।
इयं यास्यत्युच्चैर्विपदमधुना वानरचमू-
र्लघिष्ठेदं षष्ठाक्षरपरविलोपात्पठ पुनः ॥
 
सर्वमिदं शब्दश्लेषमूलाया वक्रोक्तेरुदाहरणम् । अर्थश्लेषमूलाया वक्रोक्तेर्यथा --
 
भिक्षार्थीं स क्व यातः सुतनु बलिमखे ताण्डवं क्वाद्य भद्रे
मन्ये वृन्दावनान्ते क्व नु स मृगशिशुर्नैव जाने वराहम् ।
 
[commentary]
 
घन, त्वं यद्युत्सहसे उत्साहवान्भवसि तदा तं निःस्नेहं नायकं घटयाऽनया संयोजय । गवां निवर्तने परापहृतानां व्यावर्तने य एव प्रभवति स एव धनंजयोऽर्जुन इत्यन्वयः । लिप्सया प्रोषितस्य याङ्गना तत्सखीवचन इति संबन्धः । आन्ध्रास्तैलङ्गाः । इमां मत्सखीम् । गोप्रायो गोतुल्यः ॥ १५८ ॥ इति छेकोक्त्यलंकारः ९१
 
वक्रोक्तिरिति ॥ काकुर्ध्वनेर्विकारः अपरार्थस्याभिप्रेतादर्थादर्थान्तरस्य नन्दी हरस्य गणविशेषः ॥ अहो इति ॥ दारुणा क्रूरेत्यभिप्रेतं काष्ठेनेति कल्पनं विकृतत्वं च कस्यचिद्वर्णस्यावापोद्वापाभ्याम् ॥ भवित्रीति ॥ सीतां प्रति रावणोक्तिः पादत्रयं । चतुर्थस्तं प्रति सीतायाः । ते तव पतिः स रामो युधि संग्रामे पुरतोऽग्रतो न स्थाता स्थास्यतीत्यर्थः । अतिशयेन लघुर्लघिष्ठस्तत्संबोधनम् । इदं पादत्रयं षष्टाक्षरात्पराणां सप्तमानां त्रि-न-वीति वर्णानां विलोपो यत्र तादृशं पुनः पठेत्यर्थः ॥ शब्दश्लेषेति ॥ शब्दस्य परिवृत्त्यसहत्वादिति भावः ॥ भिक्षेति ॥ जलनिधिश्च हिमवांश्च तत्कन्ययोर्लक्ष्मीपार्वत्योः क्रमेण इत्थं लीलया संलापो मिथोभाषणं नोऽस्मान् त्रायतामित्यन्वयः । इत्थं कीदृक् तदाह -- भिक्षार्थीति ॥ हरमभिप्रेत्य
 
[^१] 'मपूर्वार्थप्र'.