This page has been fully proofread twice.

लोकोक्त्यलंकारः ९०
 
लोकप्रवादानुकृतिर्लोकोक्तिरिति [^१]भण्यते
सहस्व कतिचिन्मासान्मीलयित्वा विलोचने ॥ १५७ ॥
 
अत्र लोचने मीलयित्वेति लोकवादानुकृतिः ।
 
यथावा -- मदीये वरदराजस्तवे --
 
नामैव ते वरद वाञ्छितदातृभावं
व्याख्यात्यतो न वहसे वरदानमुद्राम् ।
विश्वप्रसिद्धतरविप्रकुलप्रसूते-
र्यज्ञोपवीतवहनं हि न खल्वपेक्ष्यम् ॥
 
अत्रोत्तरार्धं लोकवादानुकारः ॥ १५७ ॥
 
----------------
 
छेकोक्त्यलंकारः ९१
 
छेकोक्ति[^२]र्यदि लोकोक्तेः स्यादर्थान्तरग[^३]र्भिता ।
भुजङ्ग एव जानीते भुजङ्गचरणं सखे ॥ १५८ ॥
 
केनचित्कस्यचिद्वृत्तान्तं पृष्टस्य समीपस्थमन्यं निर्दिश्यायमेव तस्य वृत्तान्तं जानातीत्युक्तवतोऽयमहेः पादानहिरेव जानातीति लोकवादानुकारः । अत्र स चायं च लोकविदिते धनार्जनादिव्यापारे सहचारिणाविति विदितविषयतया लोकोक्त्यनुवादस्य प्रयोजने स्थिते रहस्येऽप्यनङ्गव्यापारे तस्यायं सहचर इति मर्मोद्घाटनमपि तेन गर्भीकृतम् । यथावा --
 
मलयमरुतां व्राता याता विकासितमल्लिका-
परिमलभरो भग्नो ग्रीष्मस्त्वमुत्सहसे यदि ।
घन घटय तं त्वं निःस्नेहं य एव निवर्तने
प्रभवति गवां किं नश्छिन्नं स एव धनंजयः ॥
 
अत्र धनलिप्सया प्रोषिताङ्गनासखीवचने य एव गवां निवर्तने प्रभवति स एव धनंजय इत्यान्ध्रजातिप्रसिद्धलोकवादानुकारः । अत्रातिसौन्दर्यशा-
 
[commentary]
 
लोकेति ॥ अनुकृतिरनुकरणम् ॥ सहस्वेति ॥ अर्थाद्विरहं मासानभिव्याप्येत्यर्थः ॥ नामैवेति ॥ हे वरद, तव नामैव वाञ्छितदातृत्वमाख्याति कथयति । अतस्त्वं वरदानमुद्रां इतरदैवतवन्न धारयसि । यतो विश्वप्रसिद्धतरे विप्रकुले प्रसूतिरुत्पत्तिर्यस्य तादृशस्येत्यर्थः ॥ १५७ ॥ इति लोकोक्त्यलंकारः ॥ ९० ॥
 
छेकोक्तिरिति लक्ष्यनिर्देशः । अर्थान्तरव्यञ्जकता । समीपस्थं यद्वृत्तान्तः पृष्टस्तत्समीपस्थम् ॥ स चायं चेति ॥ पृच्छ्यमानवृत्तान्तस्तत्समीपस्थश्चेत्यर्थः । तेन लोकोक्त्यनुवादेन ॥ मलयेति ॥ व्राताः समूहाः । याता गताः । विकासिनां मल्लिकाकुसुमानां परिमलस्य भरो यस्मिन् तादृशो ग्रीष्मो भग्नो नष्टः । हे
 
[^१] 'कथ्यते'.
[^२] 'यत्र लोकोक्तैः'.
[^३] 'गर्भता'.