This page has been fully proofread once and needs a second look.

छेलोकोक्त्यलंकारः ९९ ] अलंकारचन्द्रिकासहितः ।
 
लोकोक्त्यलंकारः ९

 

 
लोकप्रवादानुकृतिर्लोकोक्तिरिति
[^१]भण्यते
सहस्व कतिचिन्मासान्मीलयित्वा
 
विलोचने ॥ १५७ ॥
 
अत्र लोचने मीलयित्वेति लोकवादानुकृतिः ।

 
यथावा -- मदीये वरदराजस्तवे-
-
 
--
 
नामैव ते वरद वाञ्छितदातृभावं

व्याख्यात्यतो न वहसे वरदानमुद्राम् ।

विश्वप्रसिद्धतरविप्रकुलप्रसूते-

र्यज्ञोपवीतवहनं हि न खल्वपेक्ष्यम् ॥
 

 
अत्रोत्तरार्धं लोकवादानुकारः ॥ १५७ ॥
 
भण्यते ।
 
विलोचने ॥ १५७ ॥
 

 
----------------
 
छेकोक्त्यलंकारः ९१

 
छेकोक्ति[^२]र्यदि लोकोक्तेः स्यादर्थान्तरग[^३]र्भिता ।
 
१६१
 

भुजङ्ग एव जानीते भुजङ्गचरणं सखे ॥ १५८ ॥

 
केनचित्कस्यचिद्वृत्तान्तं पृष्टस्य समीपस्थमन्यं निर्दिश्यायमेव तस्य वृ
त्तान्तं जानातीत्युक्तवतोऽयमहेः पादानहिरेव जानातीति लोकवादानुकारः ।
अत्र स चायं च लोकविदिते धनार्जनादिव्यापारे सहचारिणाविति विदित-
विषयतया लोकोक्त्यनुवादस्य प्रयोजने स्थिते रहस्येऽप्यनङ्ग व्यापारे तस्यायं
सहचर इति मर्मोद्घाटनमपि तेन गर्भीकृतम् । यथावा-
--
 
मलयमरुतां व्राता याता विकासितमल्लिका-

परिमलभरो भग्नो ग्रीष्मस्त्वमुत्सहसे यदि ।

घन घटय तं त्वं निःस्त्रेनेहं य एव निवर्तने
 

प्रभवति गवां किं नश्छिन्नं स एव धनंजयः ॥
 
—-
 

 
अत्र धनलिप्सया प्रोषिताङ्गनासखीवचने य एव गवां निवर्तने प्रभवति
स एव धनंजय इत्यान्ध्रजातिप्रसिद्धलोकवादानुकारः । अत्रातिसौन्दर्यशा-

 
[commentary]
 
लोकेति ॥ अनुकृतिरनुकरणम् ॥ सहस्वेति ॥ अर्थाद्विरहं मासानभिव्याप्ये-
त्यर्थः ॥ नामैवेति ॥ हे वरद, तव नामैव वाञ्छितदातृत्वमाख्याति कथयति ।
अतस्त्वं वरदानमुद्रां इतरदैवतवन्न धारयसि । यतो विश्वप्रसिद्धतरे विप्रकुले प्र-
सूतिरुत्पत्तिर्यस्य तादृशस्येत्यर्थः ॥ १५७ ॥ इति लोकोत्तक्त्यलंकारः ॥ ९० ॥
 

 
छेकोक्तिरिति लक्ष्यनिर्देशः । अर्थान्तरव्यञ्जकता । समीपस्थं यद्वृत्तान्तः पृष्ट-
स्तत्समीपस्थम् ॥ स चायं चेति ॥ पृच्छयमानवृत्तान्तस्तत्समीपस्थश्चेत्यर्थः ।
तेन लोकोत्क्त्यनुवादेन ॥ मलयेति ॥ त्व्राताः समूहाः । याता गताः । विका-
सिनां मल्लिकाकुसुमानां परिमलस्य भरो यस्मिन् तादृशो ग्रीष्मो भग्नो नष्टः । हे

 
[^
] 'कथ्यते'.
[^
] 'यत्र लोकोक्तै: तैः'.
[^
] 'गर्भता'.