This page has not been fully proofread.

१६०
 
कविगुप्ताविष्करणं यथा-
-
 
कुवलयानन्दः । [युत्तयलंकारः ८९
 
सुष्टु त्वं कुपितेत्यपास्तमशनं त्यक्ताः कथा योषितां
दूरादेव विवर्जिताः सुरभयः स्रग्गन्धधूपादयः ।
कोपं रागिणि मुञ्च मय्यवनते दृष्टे प्रसीदाधुना
 
सत्यं तद्विरहाद्भवन्ति दयिते सर्वा ममान्धा दिशः ॥
अत्र तावदीर्थ्यामानकलुषितदयिताप्रसादनव्यापारविधिः प्रतीयते । दृष्टि-
रोगार्तस्य दृष्टिं प्रत्याक्रोशो विवक्षितार्थः सच दृष्टे इत्यस्य पदस्य लुप्तोच्चारणेन
संबुद्धिरूपतामवगमय्याविष्कृतः । कविनिबद्धवक्तृगुप्तं परवञ्चनार्थ, कविगुप्तं
स्वप्रौढिकथनार्थमिति भेदः ॥ १५५ ॥
 
युक्त्यलंकारः ८९
युक्तिः परांभिसन्धानं क्रियया मर्मगुप्तये ।
त्वामालिखन्ती दृष्ट्वान्यं धनुः पौष्पं करेऽलिखत् १५६
अत्र पुष्पचापलेखनक्रियया मन्मयो मया लिखित इति भ्रान्त्युत्पादनेन
स्वानुरागरूपमर्मगोपनाय परवञ्चनं विवक्षितम् । यथावा-
दम्पत्योर्निशि जल्पतोर्गृहशुकेनाकर्णितं यद्वच-
स्तत्प्रातर्गुरुसंनिधौ निगदतस्तस्यातिमात्रं वधूः ।
कर्णालम्बितपद्मरागशकलं विन्यस्य चञ्चपुढे
 
ब्रीडार्ता विदधाति दाडिमफलव्याजेन वाग्बन्धनम् ॥
 
अत्र शुकवाङ्मुद्रणया तन्मुखेन स्वकीय रहस्यवचनशुश्रूषुजनवञ्चनं कृतम् ।
व्याजोक्तावाकारगोपनं युक्तौ तदन्यगोपनमिति भेदः । यद्वा व्याजोक्तावुक्त्या
गोपनमिह तु क्रियया गोपनमिति भेदः । एवंच 'आयान्तमालोक्य हरिं
प्रतोल्याम्' इति लोकेऽपि युक्तिरेव ॥ १५६ ॥
 
मिति ॥ शोभनर्दयिता दृष्टिश्च तयोः संबोधनम् । कोपो रोषो विकारश्च ।
रागिण्यनुरागिणीति अवनते नम्रे इति च मयीत्यस्य विशेषणम् । पक्षे रागिणि
रक्तिमशीले नम्रे इति दृक्संबोधनम् । एवं दृष्टे इत्यपि ॥ उच्चारणेनेति ॥
स्वर विशेषसह कृतोच्चारणेनेत्यर्थः ॥ १५५ ॥ इति विवृतोत्त्यलंकारः ॥ ८८ ॥
 
-
 
युक्तिरिति ॥ स्वस्य मर्मगोपनाय क्रियया यत्परस्यातिसंधानं वञ्चनं सा
युक्तिरलंकारः ॥ त्वामिति ॥ नायकं प्रति दूतीवचनम् । पुष्पस्येदं पौष्पम् ॥
दम्पत्योरिति ॥ तस्य शुकस्य अतिमात्रमत्यर्थ निगदत इति संबन्धः । फल-
शब्दो बीजपरः। गोपनीय विषयभेदस्य विच्छित्तिभेदाप्रयोजकत्वादाह – यद्वेति ॥
नन्वेवं सत्यायान्तमालोक्येत्यादौ व्याजोक्तिरेवेति प्रागुक्तं विरुध्येतेत्याशङ्ख्याह-
एवंचेति ॥ यद्वेति पक्षाङ्गीकारे चेत्यर्थः । एवंच पूर्वग्रन्थ आद्यपक्षाभिप्रायेणेति
भावः ॥१५६ ॥ इत्यलंकारचन्द्रिकायां कुवलयानन्दटीकायां युक्त्यलंकारः ॥८९ ॥
१ 'परातिसंधानं'.