This page has been fully proofread twice.

कविगुप्ताविष्करणं यथा --
 
सुष्ठु त्वं कुपितेत्यपास्तमशनं त्यक्ताः कथा योषितां
दूरादेव विवर्जिताः सुरभयः स्रग्गन्धधूपादयः ।
कोपं रागिणि मुञ्च मय्यवनते दृष्टे प्रसीदाधुना
सत्यं तद्विरहाद्भवन्ति दयिते सर्वा ममान्धा दिशः ॥
 
अत्र तावदीर्ष्यामानकलुषितदयिताप्रसादनव्यापारविधिः प्रतीयते । दृष्टिरोगार्तस्य दृष्टिं प्रत्याक्रोशो विवक्षितार्थः सच दृष्टे इत्यस्य पदस्य लुप्तोच्चारणेन
संबुद्धिरूपतामवगमय्याविष्कृतः । कविनिबद्धवक्तृगुप्तं परवञ्चनार्थं, कविगुप्तं
स्वप्रौढिकथनार्थमिति भेदः ॥ १५५ ॥
 
------------------
 
युक्त्यलंकारः ८९
 
युक्तिः परा[^१]भिसन्धानं क्रियया मर्मगुप्तये ।
त्वामालिखन्ती दृष्ट्वान्यं धनुः पौष्पं करेऽलिखत् ॥ १५६ ॥
 
अत्र पुष्पचापलेखनक्रियया मन्मथो मया लिखित इति भ्रान्त्युत्पादनेन स्वानुरागरूपमर्मगोपनाय परवञ्चनं विवक्षितम् । यथावा --
 
दम्पत्योर्निशि जल्पतोर्गृहशुकेनाकर्णितं यद्वच-
स्तत्प्रातर्गुरुसंनिधौ निगदतस्तस्यातिमात्रं वधूः ।
कर्णालम्बितपद्मरागशकलं विन्यस्य चञ्चूपुटे
व्रीडार्ता विदधाति दाडिमफलव्याजेन वाग्बन्धनम् ॥
 
अत्र शुकवाङ्मुद्रणया तन्मुखेन स्वकीयरहस्यवचनशुश्रूषुजनवञ्चनं कृतम् ।व्याजोक्तावाकारगोपनं युक्तौ तदन्यगोपनमिति भेदः । यद्वा व्याजोक्तावुक्त्या गोपनमिह तु क्रियया गोपनमिति भेदः । एवंच 'आयान्तमालोक्य हरिं प्रतोल्याम्' इति श्लोकेऽपि युक्तिरेव ॥ १५६ ॥
 
---------------

 
[commentary]
 
मिति ॥ शोभनभ्रुर्दयिता दृष्टिश्च तयोः संबोधनम् । कोपो रोषो विकारश्च । रागिण्यनुरागिणीति अवनते नम्रे इति च मयीत्यस्य विशेषणम् । पक्षे रागिणि रक्तिमशीले नम्रे इति दृक्संबोधनम् । एवं दृष्टे इत्यपि ॥ उच्चारणेनेति ॥ स्वरविशेषसहकृतोच्चारणेनेत्यर्थः ॥ १५५ ॥ इति विवृतोत्क्त्यलंकारः ॥ ८८ ॥
 
युक्तिरिति ॥ स्वस्य मर्मगोपनाय क्रियया यत्परस्यातिसंधानं वञ्चनं सा युक्तिरलंकारः ॥ त्वामिति ॥ नायकं प्रति दूतीवचनम् । पुष्पस्येदं पौष्पम् ॥ दम्पत्योरिति ॥ तस्य शुकस्य अतिमात्रमत्यर्थं निगदत इति संबन्धः । फलशब्दो बीजपरः। गोपनीयविषयभेदस्य विच्छित्तिभेदाप्रयोजकत्वादाह -- यद्वेति ॥ नन्वेवं सत्यायान्तमालोक्येत्यादौ व्याजोक्तिरेवेति प्रागुक्तं विरुध्येतेत्याशङ्क्याह -- एवंचेति ॥ यद्वेति पक्षाङ्गीकारे चेत्यर्थः । एवंच पूर्वग्रन्थ आद्यपक्षाभिप्रायेणेति भावः ॥१५६ ॥ इत्यलंकारचन्द्रिकायां कुवलयानन्दटीकायां युक्त्यलंकारः ॥८९ ॥
 
[^१] 'परातिसंधानं'.