This page has been fully proofread once and needs a second look.

१६०
 
कविगुप्ताविष्करणं यथा-
-
 
कुवलयानन्दः । [युत्तयलंकारः ८९
 
--
 
सुष्टुठु त्वं कुपितेत्यपास्तमशनं त्यक्ताः कथा योषितां

दूरादेव विवर्जिताः सुरभयः स्रग्गन्धधूपादयः ।

कोपं रागिणि मुञ्च मय्यवनते दृष्टे प्रसीदाधुना
 

सत्यं तद्विरहाद्भवन्ति दयिते सर्वा ममान्धा दिशः ॥

 
अत्र तावदीर्थ्ष्यामानकलुषितदयिताप्रसादनव्यापारविधिः प्रतीयते । दृष्टि-
रोगार्तस्य दृष्टिं प्रत्याक्रोशो विवक्षितार्थः सच दृष्टे इत्यस्य पदस्य लुप्तोच्चारणेन

संबुद्धिरूपतामवगमय्याविष्कृतः । कविनिबद्धवक्तृगुप्तं परवञ्चनार्थं, कविगुप्तं

स्वप्रौढिकथनार्थमिति भेदः ॥ १५५ ॥
 

 
------------------
 
युक्त्यलंकारः ८९

 
युक्तिः परांरा[^१]भिसन्धानं क्रियया मर्मगुप्तये ।

त्वामालिखन्ती दृष्ट्वान्यं धनुः पौष्पं करेऽलिखत् १५६

 
अत्र पुष्पचापलेखनक्रियया मन्मयोथो मया लिखित इति भ्रान्त्युत्पादनेन
स्वानुरागरूपमर्मगोपनाय परवञ्चनं विवक्षितम् । यथावा-
--
 
दम्पत्योर्निशि जल्पतोर्गृहशुकेनाकर्णितं यद्वच-

स्तत्प्रातर्गुरुसंनिधौ निगदतस्तस्यातिमात्रं वधूः ।

कर्णालम्बितपद्मरागशकलं विन्यस्य चञ्चूपुढे
 
ब्
टे
व्
रीडार्ता विदधाति दाडिमफलव्याजेन वाग्बन्धनम् ॥
 

 
अत्र शुकवाङ्मुद्रणया तन्मुखेन स्वकीय रहस्यवचनशुश्रूषुजनवञ्चनं कृतम् ।
व्याजोक्तावाकारगोपनं युक्तौ तदन्यगोपनमिति भेदः । यद्वा व्याजोक्तावुक्त्या
गोपनमिह तु क्रियया गोपनमिति भेदः । एवंच 'आयान्तमालोक्य हरिं
प्रतोल्याम्' इति श्लोकेऽपि युक्तिरेव ॥ १५६ ॥
 

 
[commentary]
 
मिति ॥ शोभनभ्रुर्दयिता दृष्टिश्च तयोः संबोधनम् । कोपो रोषो विकारश्च ।
रागिण्यनुरागिणीति अवनते नम्रे इति च मयीत्यस्य विशेषणम् । पक्षे रागिणि
रक्तिमशीले नम्रे इति दृक्संबोधनम् । एवं दृष्टे इत्यपि ॥ उच्चारणेनेति ॥
स्वर
स्वरविशेषसह कृतोच्चारणेनेत्यर्थः ॥ १५५ ॥ इति विवृतोत्त्यलंकारः ॥ ८८ ॥
 
-
 

 
युक्तिरिति ॥ स्वस्य मर्मगोपनाय क्रियया यत्परस्यातिसंधानं वञ्चनं सा
युक्तिरलंकारः ॥ त्वामिति ॥ नायकं प्रति दूतीवचनम् । पुष्पस्येदं पौष्पम् ॥
दम्पत्योरिति ॥ तस्य शुकस्य अतिमात्रमत्यर्थं निगदत इति संबन्धः । फल-
शब्दो बीजपरः। गोपनीय विषयभेदस्य विच्छित्तिभेदाप्रयोजकत्वादाह -- यद्वेति ॥
नन्वेवं सत्यायान्तमालोक्येत्यादौ व्याजोक्तिरेवेति प्रागुक्तं विरुध्येतेत्याशङ्ख्क्याह-
-- एवंचेति ॥ यद्वेति पक्षाङ्गीकारे चेत्यर्थः । एवंच पूर्वग्रन्थ आद्यपक्षाभिप्रायेणेति
भावः ॥१५६ ॥ इत्यलंकारचन्द्रिकायां कुवलयानन्दटीकायां युक्त्यलंकारः ॥८९ ॥

 
[^
] 'परातिसंधानं'.