This page has been fully proofread twice.

प्रत्याख्यानं सुराणामिति भयशमनच्छद्मना कारयित्वा
यस्मै लक्ष्मीमदाद्वः स दहतु दुरितं मन्थमुग्धः पयोधिः ॥
 
इदं परवञ्चनाय गुप्ताविष्करणम् । त्रपागुप्ताविष्करणं यथा --
 
दृष्ट्या केशव गोपरागहतया किंचिन्न दृष्टं मया
तेनेह स्खलितास्मि नाथ पतितां किंनाम नालम्बसे ।
एकस्त्वं विषमेषुखिन्नमनसां सर्वाबलानां गति-
र्गोप्येवं गदितः सलेशमवताद्गोष्टेठे हरिर्वश्विचिरम् ॥
 
अत्र कृष्णस्य पुरतो विषमे परिस्खलनमभिहितवत्यास्तं कामयमानाया गोपिकाया वचने विषमपथि स्खलनपतनत्राणसंप्रार्थनरूपेण झटिति प्रतीयमानेनार्थेन गुप्तं विवक्षितमर्थान्तरं सलेशं ससूचनमित्यनेनाविष्कृतम् । एवं नैषधादिषु 'चेतो नलं कामयते मदीयम्' इति दमयन्तीवाक्यादिकमप्युदाहरणम् । इदं शब्दशक्तिक्रोडीकृतगुप्ताविष्करणम् । अर्थशक्तिमूलगुप्तार्थाविष्करणं यथा --
 
गच्छाम्यच्युत दर्शनेन भवतः किं तृप्तिस्रुत्पद्यते
किंचैवं विजनस्थयोर्हतजनः संभावयत्यन्यथा ।
इत्यामन्त्रणभङ्गिसूचितवृथावस्थानखेदालसा-
माश्लिष्यन्पुलकोत्कराञ्चिततनुर्गोपीं हरिः पातु वः ॥
 
अत्र गच्छाम्यच्युतेत्यामन्त्रणेन त्वया रन्तुं कामेच्छया स्थितं तन्न लब्धमित्यर्थशक्तिलभ्यं वस्तु तृतीयपादेनाविष्कृतम् । सर्वमेतत्कविनिबद्धवक्तृगुप्ताविष्करणोदाहरणम् ।
 
[commentary]
 
प्रत्याख्यानं वर्जनं कारयित्वा मन्थो मन्थनं तेन मुग्धः पयोधिः यस्मै लक्ष्मीमदात्स वो दुरितं दहन्त्वित्वित्यन्वयः ॥ परेति ॥ परवञ्चनाय गुप्तस्य आविष्करणमित्यर्थः ॥ त्रपेति ॥ लज्जया गुप्तस्येत्यर्थः ॥ दृष्ट्येति ॥ गोपे त्वयि यो राग आसक्तिस्तद्धतयापहृतया गवां परागैर्धूलिभिर्व्याप्तया च । गोपेति संबोधनं वा । किंचित्समविषमं युक्तायुक्तं च । इह त्वयि भूमौ च । पत्युर्भावः पतिता तां पतनं प्राप्तां च । विषमेषुः पञ्चशरस्तेन खिन्नमनसां विषमेषु संकटेषु खिन्नमनसा च । अबलानां स्त्रीणां बलरहितानां च । सलेशं ससूचनं । गोष्ठं गोस्थानम् ॥ चेतो नलमिति ॥ लङ्कां न अयते न गच्छतीत्यर्थे नलं कामयते इच्छतीत्यर्थो गुप्तस्तदाविष्करणं च ह्रीणा हृष्टा चेत्यनेनेति बोध्यम् ॥ शब्दशक्तीति ॥ शब्दश्लेषवशेनेत्यर्थः । क्रोडीकृतः संगृहीतः ॥ गच्छामीति ॥ अच्युत, मद्विषये अस्खलितेति गुप्तोऽर्थः । चिरकालं त्वद्दर्शनेनापि न तृप्तिरित्यर्थेन दर्शनेन न तृप्तिरपि तु संभोगेनेत्यर्थो गुप्तः ।विजनस्थयोरेकान्तगतयोः । हृतश्चासौ जनश्च अन्यथा रत्यर्थं स्थिताविति संभावयति । तेन द्वयोरकीर्तिर्जातैव वृथैवात्मानं वञ्चयाव इति गुप्तोऽर्थः। आमन्त्रणस्याच्युतेत्यादेर्भङ्ग्या रचनया सूचितो यो वृथावस्थानखेदस्तेनालसाम् ॥ कविनिबद्धेति ॥ कविनिबद्धेन वक्त्रा गुप्तस्येत्यर्थः ॥ सुष्टु त्व-