This page has been fully proofread once and needs a second look.

विवृतोत्तयलंकारः ८८] अलंकारचन्द्रिकासहितः ।
 
,
 
प्रत्याख्यानं सुराणामिति भयशमनच्छद्मना कारयित्वा

यस्मै लक्ष्मीमदाद्वः स दहतु दुरितं मन्थमुग्धः पयोधिः ॥

 
इदं परवञ्चनाय गुप्ताविष्करणम् । त्रपागुप्ताविष्करणं यथा -
-
 
दृष्ट्या केशव गोपरागहतया किंचिन्न दृष्टं मया
 
w
 

तेनेह स्खलितास्मि नाथ पतितां किंनाम नालम्बसे ।

एकस्त्वं विमेपुषुखिन्न मनसां सर्वाबलानां गति-

र्
गोप्येवं गढ़िदितः सलेशमवताद्गोष्टे हरिर्वश्विरम् ॥
 
१५९
 

 
अत्र कृष्णस्य पुरतो विषमे परिस्खलनमभिहितवत्यास्तं कामयमानाया
गोपिकाया वचने विषमपथि स्खलनपतनत्राणसंप्रार्थनरूपेण झटिति प्रतीय-
मानेनार्थेन गुप्तं विवक्षितमर्थान्तरं सलेशं ससूचनमित्यनेनाविष्कृतम् । एवं
नैधादिपुषु 'चेतो नलं कामयते मदीयम्' इति दमयन्तीवाक्यादिकमप्युदाहर-
णम् । इदं शब्दशक्तिकोक्रोडीकृतगुप्ताविष्करणम् । अर्थशक्तिमूलगुप्तार्थाविष्करणं यथा -
रणं यथा
-
 

 
गच्छाम्यच्युत दर्शनेन भवतः किं तृप्तिस्त्पद्यते

किंचैवं विजनस्थयोर्हतजनः संभावयत्यन्यथा ।

इत्यामन्त्रणभङ्गिसूचितवृथावस्थानखेदालसा-

माश्लिप्ष्यन्पुलकोत्कराञ्चिततनुर्गोपीं हरिः पातु वः ॥
 

 
अत्र गच्छाम्यच्युतेत्यामन्त्रणेन त्वया रन्तुं कामेच्छया स्थितं तन्न लब्धमि
त्यर्थशक्तिलभ्यं वस्तु तृतीयपादेनाविष्कृतम् । सर्वमेतत्कवि निबद्धवक्तृगुप्ता-
विष्करणोदाहरणम् ।
 

 
[commentary]
 
प्रत्याख्यानं वर्जनं कारयित्वा मन्थो मन्थनं तेन मुग्धः पयोधिः यस्मै लक्ष्मी-
मदात्स वो दुरितं दहलिन्त्वियन्वयः ॥ परेति ॥ परवञ्चनाय गुप्तस्य आविष्करण-
मित्यर्थः ॥ त्रपेति ॥ लज्जया गुप्तस्येत्यर्थः ॥ दृष्ट्येति ॥ गोपे त्वयि यो राग
आसक्तिस्तद्धतयापहृतया गवां परागैर्धूलिभिर्व्याप्तया च । गोपेति संबोधनं
वा । किंचित्समविषमं युक्तायुक्तं च । इह त्वयि भूमौ च । पत्युर्भावः पतिता तां
पतनं प्राप्तां च । विषमेषुः पञ्चशरस्तेन खिन्नमनसां विषमेषु संकटेषु खिन्नमनसां
सा च । अबलानां स्त्रीणां बलरहितानां च । सलेशं ससूचनं । गोष्ठं गोस्थानम् ॥ चेतो
नलमिति ॥ लङ्कां न अयते न गच्छतीत्यर्थे नलं कामयते इच्छतीत्यर्थो गुप्तस्त-
दाविष्करणं च हीह्रीणा हृष्टा चेत्यनेनेति बोध्यम् ॥ शब्दशक्तीति ॥ शब्दश्लेषवशेने-
त्यर्थः । क्रोडीकृतः संगृहीतः ॥ गच्छामीति ॥ अच्युत, मद्विषये अस्खलितेति
गुप्तोऽर्थः । चिरकालं त्वद्दर्शनेनापि न तृप्तिरित्यर्थेन दर्शनेन न तृप्तिरपि तु सं-
भोगेनेत्यर्थो गुप्तः । विजनस्थयोरेकान्तगतयोः । हृतश्चासौ जनश्च अन्यथा र
त्यर्थ स्थिताविति संभावयति । तेन द्वयोरकीर्तिर्जातैव वृथैवात्मानं वञ्चयाव इति
गुप्तोऽर्थः। आमन्त्रणस्याच्युतेत्यादेर्भङ्ग्या रचनया सूचितो यो वृथावस्थानखेदस्ते-
नालसाम् ॥ कविनिबद्धेति ॥ कविनिबद्धेन वक्रा गुप्तस्येत्यर्थः ॥ सुष्टु त्व-
M