2023-02-17 12:59:08 by ambuda-bot
This page has not been fully proofread.
१५८
कुवलयानन्दः । [ विवृतोक्त्यलंकारः ८८
प्रति वक्तव्यं परक्षेत्रे सस्यानि भक्षयन्तं कंचिदुक्षाणं समीपे चरन्तं निर्दिश्य
कथ्यते । नेयमप्रस्तुतप्रशंसा । कार्यकारणादिव्यङ्ग्यत्वाभावात् । नापि श्लेष-
मात्रम् । अप्रकृतार्थस्य प्रकृतार्थान्वयित्वेनाविवक्षितत्वात् । तस्य केवलमि-
तरवञ्चनार्थं निर्दिष्टतया विच्छित्तिविशेषसद्भावात् । यथावा-
नाथो मे विपणिं गतो न गणयत्येषा सपत्नी च मां
त्यक्त्वा मामिह पुष्पिणीति गुरवः प्राप्ता गृहाभ्यन्तरम् ।
शय्यामात्रसहायिनीं परिजनः श्रान्तो न मां सेवते
स्वामिन्नागमलालनीय रजनीं लक्ष्मीपते रक्ष माम् ॥
अत्र लक्ष्मीपतिनाम्नो जारस्यागमनं प्रार्थयमानायास्तटस्थवञ्चनाय भगवन्तं
प्रत्याक्रोशस्य प्रत्यायनम् ॥ १५४ ॥
विवृतोक्त्यलंकारः ८८
विवृतोक्तिः श्लिष्टगुप्तं कविनाविष्कृतं यदि ।
वृपापेहि परक्षेत्रादिति वक्ति ससूचनम् ॥ १५५ ॥
॥
लिष्टगुप्तं वस्तु यथाकथंचित्कविनाविष्कृतं चेद्विवृतोक्तिः । वृपापेहीत्युदा-
हरणे पूर्ववद्रुप्तं वस्तु ससूचनमिति कविनाविष्कृतम् । यथावा-
वत्से मा गा विपादं श्वसनमुरुजवं संत्यजोर्ध्वप्रवृत्तं
कम्पः को वा गुरुस्ते किमिह बलभिदा जृम्भितेनात्र याहि ।
कारः । क्षेत्रं सस्यादेः कलत्रं च । अपेहि दूरीभव ॥ अविवक्षितत्वादिति ॥
अयं भावः प्रकृताप्रकृतश्लेषे 'असावुदयमारूढः' इत्यादावप्रकृतार्थस्य प्रकृता-
र्थोपमानतयान्वयः स्वीक्रियते । सर्वथैव प्रकृतासंबद्धस्याप्रकृतार्थस्य कथनेऽसं-
बन्धार्थाभिधायकत्वापत्तेः । अतः प्रकृतेऽपि श्लेषवादिनाप्रकृतस्य प्रकृतसंबन्धो
वाच्यः । स च न संभवति विवक्षाविरहादिति ॥ कुतस्तर्हि प्रकृतार्थकथनं
तत्राह - तस्येति ॥ अप्रकृतार्थस्येत्यर्थः । ननु तादृश विवक्षाविरहेsपि नानार्थ-
विन्यासमात्रेणास्तु श्लेष एवेत्याशयाह - विच्छित्तिविशेषेति ॥ तथाच
श्लेषसत्त्वेऽपि विच्छित्तिविशेषाद्दूढोक्तिरवश्यमङ्गी कार्येत्याशयः । अतएव श्लेष-
मात्रमिति तन्मात्रनिराकरणमेवोपक्रान्तं नतु श्लेषनिराकरणमिति ॥ नाथ इति ॥
विपणिः पण्यवीथिका । पुष्पिणी रजस्वला । आगमेन वेदेन लालनीयः स्तुत्यः,
आगमनेन लालनीयश्च । रजनीं व्याप्येति अत्यन्तसंयोगे द्वितीया ॥ १५४ ॥
इति गूढोत्त्यलंकारः ॥ ८७ ॥
लिष्टगुप्तमिति ॥ श्लिष्टेत्युपलक्षणम् । अर्थशक्तिमूलगुप्तस्यापि गच्छाम्यच्यु-
तेत्यादौ संग्राह्यत्वात् ॥ वत्से इति ॥ वत्से लक्ष्मि, विषादं खेदं हरं च उरुजवं
महावेगमूर्ध्वं प्रवृत्तं श्वसनं श्वासं पवनं च संत्यज, कं जलं पातीति तथा वरुणः
कम्पश्च। गुरुर्महान् बृहस्पतिश्च । बलं प्रसिद्धं तद्भिदा नाशकेन बलाख्यदैत्यनाशके-
नेन्द्रेण च । अत्र श्रीकृष्णसंनिधौ याहि इति प्रकारेण भयनिवारणव्याजेन सुराणां