2023-02-17 12:59:07 by ambuda-bot
This page has not been fully proofread.
गूढोक्त्यलंकारः ८७ ] अलंकारचन्द्रिकासहितः ।
१५७
पहेत्वन्तरप्रत्यायकेन प्रणामेन गोपनं कृतम् । सूक्ष्मपिहितालंकारयोरपि चे-
ष्टितग्रहणमुक्तिसाधारणव्यापारमात्रोपलक्षणम् । ततश्च ।
नलिनीदले बलाका मरकतपात्र इव दृश्यते शुक्तिः ।
इति मम संकेतभुवि ज्ञात्वा भावं तदाब्रवीदालीम् ॥
इत्यादिष्वपि सूक्ष्मालंकारः प्रसरति । अत्र श्लोके तावत्किमावयोः संकेत-
स्थानं भविष्यतीति प्रश्नाशयं सूचयति कामुके तदभिज्ञया विदग्धया तदा
सखीं प्रति साकूतमुक्तमिति सूक्ष्मालंकारो भवति । यतोऽत्र बलाकाया मर-
कतपात्रप्रतिष्ठित शुक्त्युपमया तस्या निश्चलत्वेनाश्वस्तत्वं तेन तस्य प्रदेशस्य
निर्जनत्वं तेन तदेवावयोः संकेतस्थानमिति कामुकं प्रति सूचनं लक्ष्यते ।
नचात्र ध्वनिराशङ्कनीयः । दूरे व्यज्यमानस्यापि संकेतस्थान प्रश्नोत्तरस्य स्वो-
क्स्यैवाविष्कृतत्वात् । एवं पिहितालंकारेऽप्युदाहार्यम् । इदं चान्यदत्रावधे-
यम् । यत्रासौ वेतसी पान्थेत्यादिषु गूढोत्तरसूक्ष्म पिहित व्याजोक्त्युदाहरणेषु
भावो न स्वोक्त्याविष्कृतः किंतु वस्तुसौन्दर्यबलाद्वक्तृबोद्धव्यविशेषविशेषि-
ताद्गम्यः । तत्रैव वस्तुतो नालंकारत्वं, ध्वनिभावास्पदत्वात् । प्राचीनैः स्वो-
क्त्याविष्करणे सत्यलंकारास्पदतास्तीत्युदाहृतत्वादस्माभिरप्युदाहृतानि । शक्यं
हि 'यत्रासौ वेतसी पान्थ तत्रेयं सुतरा सरित् । इति पृच्छन्तमध्वानं का
मिन्याह ससूचनम् ॥' इत्याद्यर्थान्तरकल्पनया भावाविष्करणमित्यतः प्राक्
लिखितोदाहरणेषु संकेतकालमनसं पुंस्त्वं तन्व्या व्यञ्जयन्ती भामा जुगू-
हेति भावाविष्करणमस्ति तेष्वेव तत्तदलंकार इति ॥ १५३ ॥
।
गूढोक्त्यलंकारः ८७
गूढोक्तिरन्योद्देश्यं चेद्यदन्यं प्रति कथ्यते ।
वृषापेहि परक्षेत्रादायाति क्षेत्ररक्षकः ॥ १५४ ॥
यं प्रति किंचिद्वक्तव्यं तत्तटस्थैर्माज्ञायीति तदेव तदन्यं कंचित्प्रति श्लेषे-
णोच्यते चेत्सा गूढोक्तिः । वृषेत्यायुदाहरणम् । परकलत्रं भुजानं कामुकं
ज्यमानमनुरागमेनं हरिं प्रणमन्ती सती जुगूह गोपितवतीत्यन्वयः । लक्ष्यते व्य-
ज्यते ॥ एवमिति ॥ सूक्ष्मालंकारवदुक्तिरूपव्यापारवर्णन मित्यर्थः । उदाहर्त-
व्यमिति ॥ यथा वऋस्पन्दीति पद्य एव 'आलीं बालां सस्मितं प्राह मन्दं मु-
ग्धाक्षिं त्वामद्य पश्यामि नाथम्' इत्युत्तरार्धनिर्माणे नाथमित्युक्त्या प्रकाशन मिति
बोध्यम् ॥ वस्तुसौन्दर्येति ॥ वेतसीनिकुञ्जरूपवस्तुसौन्दर्येत्यर्थः । ध्वनिभा-
वास्पदत्वा निवाश्रयत्वात् ॥ उपसंहरति — अत इति ॥ येष्वित्यस्य भावावि
घ्करणमस्तीत्यनेनान्वयः ॥ १५३ ॥ इति व्याजोक्त्यलंकारः ॥ ८६ ॥
गूढोक्तिरिति॥ यद्यदन्योद्देश्यकं वाक्यं तत्तदन्यं प्रति कथ्यते चेद्गूढोक्तिरलं-
१ 'न्योद्देश्याशीर्यदन्यं'.