This page has been fully proofread twice.

पिहितालंकारः ८५
 
पिहितं परवृत्तान्ताज्ञातुः साकृतचेष्टितम् ।
प्रिये गृहागते प्रातः कान्ता तल्पमकल्पयत् ॥ १५२ ॥
 
रात्रौ सपत्नीगृहे जागरणेन श्रान्तोऽसीति तल्पकल्पनाकूतम् । यथावा --

वक्त्रस्यन्दिस्वेदबिन्दुप्रबन्धैर्दृष्ट्वा भिन्नं कुङ्कुमं कापि कण्ठे ।
पुंस्त्वं तन्व्या व्यञ्जयन्ती वयस्या स्मित्वा पाणौ खड्लेखां लिलेख ॥
 
अत्र स्वेदानुमितं पुरुषायितं पुरुषोचितखड्गलेखनेन प्रकाशितम् ॥ १५२ ॥
 
-----------
 
व्याजोक्त्यलंकारः ८६
 
व्याजोक्तिरन्यहेतूत्क्त्या यदाकारस्य गोपनम् ।
सखि पश्य गृहारामपरागैरस्मि धूसरा ॥ १५३ ॥
 
अत्र चौर्यरतकृतसंकेतभूपृष्ठलुण्ठनलग्नधूलिजालस्य गोपनम् । यथावा --
 
कस्य वा न भवेद्रोषः प्रियायाः सव्रणेऽधरे ।
सभृङ्गं पद्ममाघाघ्रासीर्वारितापि मयाधुना ॥
 
उपपतिना खण्डिताधराया नायिकायाः सकाशमागच्छन्तं प्रियमपश्यन्त्येव सख्या नायिकां प्रति हितोपदेशव्याजेन तं प्रति नायिकापराधगोपनम् । छेकापह्नुतेरस्याश्चायं विशेषः । तस्यां वचनस्यान्यथानयनेनापह्नवः । अस्यामाकारस्य हेत्वन्तरवर्णनेन गोपनमिति । लक्षणे लक्ष्यनाम्नि चोक्तिग्रहणमाकारस्य गोपनार्थं हेत्वन्तरप्रत्यायकव्यापारमात्रोपलक्षणम् ।
 
ततश्च
 
आयान्तमालोक्य हरिं प्रतोल्यामाल्याः पुरस्तादनुरागमेका ।
रोमाञ्चकम्पादिभिरुच्यमानं भामा जुगूह प्रणमन्त्यथैनम् ॥
 
इत्यत्रापि व्याजोक्तिरेव । तत्र ह्यनुरागकृतस्य रोमाञ्चाद्याकारस्य भक्तिरू-
 
[commentary]
 
भ्यामर्पितमाकूतं यस्मिन् तादृशं लीलासंबन्धि पद्मम् । नेत्रेत्यादि क्रियाविशेषणं वा ॥ १५१ ॥ इति सूक्ष्मालंकारः ॥ ८४ ॥
 
पिहितमिति लक्ष्यनिर्देशः । तल्पं शयनम् ॥ वक्त्रेति ॥ वक्त्रे प्रस्रवणशीलानां स्वेदबिन्दूनां प्रबन्धैर्धाराभिः कण्ठे भिन्नं लग्नं कुङ्कुमं दृष्ट्वा कापि वयस्या सखी स्मित्वा स्मितं कृत्वा पुंस्त्वं व्यञ्जयन्ती सती तन्व्याः पाणौ खड्गलेखां लिलेखेत्यन्वयः । सूक्ष्मालंकारे परामिभिप्रायमवगत्य साकूतचेष्टितेनोत्तरसमर्पणम् । पिहितालंकारे तु गूढं परवृत्तान्तं ज्ञात्वा साकूतचेष्टया तत्प्रकाशनमिति भेदो बोध्यः ॥ १५२ ॥ इति पिहितालंकारः ॥ ८५ ॥
 
व्याजोक्तिरिति ॥ लक्ष्यनिर्देशः चौर्यरते कृतं यत्संकेतभूतभूमिपृष्ठलुण्ठनमित्यन्वयः । उपपतिना जारेण । तस्यां छेकापह्नुतौ ॥ आयान्तमिति ॥ प्रतोल्यां रथ्यायाम् । एका काचिद्रामा वनिता सख्याः पुरस्ताद्रोमाञ्चकम्पादिभिरनुभावैर्व्य-