This page has been fully proofread twice.

प्रतिबन्धकं किंचिदपि नास्तीति हृदयम् । इदमुन्नेयप्रश्नोदाहरणम् । निबद्धप्रश्नोत्तरं यथा --
 
कुशलं तस्या जीवति कुशलं पृच्छामि जीवतीत्युक्तम् ।
पुनरपि तदेव कथयसि मृतां नु कथयामि या श्वसिति ॥
 
ईर्ष्यामानानन्तरमनुतप्ताया नायिकायाः सखीमागतां प्रति तस्याः कुशलमि()ति नायकस्य प्रश्नः । जीवतीति सख्या उत्तरम् । जीवत्याः कुतः कुशलमि()ति तदभिप्रायः । अन्यत्पृष्टमन्यदुत्तरमिति नायकस्य पुनः कुशलं पृच्छामी()ति प्रश्नः । पृष्टस्योत्तरमुक्तमित्यभिप्रायेण जीवतीत्युक्तमिति सख्या वचनम् । सखीवचनस्याभिप्रायोद्घाटनार्थं पुनरपि तदेव कथयसीति नायकस्या()क्षेपः । मृतां नु कथयामि या श्वसितीति स्वाभिप्रायोद्घाटनार्थम् । सति ()रणे खलु तस्याः कुशलं भवति मदागमनसमयेऽपि श्वासेषु संचरत्सु कथं ()मृतां कथयेयमित्यभिप्रायः ॥ १४९ ॥
 
प्रश्नोत्तरान्तराभित्रमुत्तरं चित्रमुच्यते ।
के दारपोषणरताः के खेटाः किं चलं वयः ॥ १५० ॥
 
अत्र केदारपोषणरता इति प्रश्नाभिन्नमुत्तरं के खेटाः किं चलमिति प्रश्नद्वस्य वय इत्येकमुत्तरम् । उदाहरणान्तराणि विदग्धमुखमण्डने द्रष्टव्यानि १५०
 
-------------
 
सूक्ष्मालंकारः ८४
 
सूक्ष्मं पराशयाभिज्ञे तरसाकूतचेष्टितम् ।
मयि पश्यति सा केशै: सीमन्तमणिमावृणोत् ॥ १५१ ॥
 
कामुकस्यावलोकनेन संकेतकालप्रश्नभावं ज्ञातवत्याश्चेष्टेयम् । अस्तंगते सूर्ये संकेतकाल इत्याकूतम् । यथावा --
 
संकेतकालमनसं विटं ज्ञात्वा विदग्धया ।
आसीन्नेत्रार्पिताकूतं लीलापद्मं निमीलितम् ॥ १५१ ॥
 
---------------
 
[commentary]
 
तादृशस्योत्तरस्य ॥ ईर्ष्यामानेति ॥ ईर्ष्याहेतुकमानेत्यर्थः । अनुतप्तायाः पश्चात्तापयुतायाः ॥ १४९ ॥ प्रश्नोत्तरेति ॥ प्रश्नश्च उत्तरान्तरं च प्रश्नोत्तरान्तरे ताभ्यामभिन्नमुत्तरं चित्रमित्युच्यत इत्यर्थः ॥ के दारेति ॥ दाराणां पोषणे रताः के इति प्रश्नः, केदारस्य क्षेत्रस्य पोषणे रता इति तदेवोत्तरम् । के खेटाः खे आकाशे अटन्तीति प्रश्नस्य यदुत्तरं वयः पक्षिण इति । तत्किं चलमिति प्रश्नस्य यदुत्तरान्तरं वयस्तारुण्यादीति तेनाभिन्नम् ॥१५० ॥ इत्युत्तरालंकारः ८३
 
सूक्ष्ममिति ॥ पराशयाभिज्ञस्येतरस्मिन्परविषये साभिप्रायं चेष्टितं सूक्ष्मालंकारः । पराशयाभिज्ञश्चासावितरश्च तस्य साकूतचेष्टितमर्थात्परविषय इति चार्थः ॥ संकेतेति ॥ संकेतकाले मनो यस्य तज्जिज्ञासुमिति यावत् । विटं जारं नेत्रा-