This page has been fully proofread twice.

नृत्यद्भर्गाट्टहासप्रसरसहचरैस्तावकीनैर्यशोभि-
र्धावल्यं नीयमाने त्रिजगति परितः श्रीनृसिंहक्षितीन्द्र ।
नेदृग्यद्येष नाभीकमलपरिमलप्रौढिमासादयिष्य-
द्देवानां नाभविष्यत्कथमपि कमलाकामुकस्यावबोधः ॥
 
काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः ।
वसन्तसमये प्राप्ते काकः काकः पिकः पिकः ॥
 
इदं विशेषकस्योदाहरणम् । अत्र द्वितीयकाकपिकशब्दौ काकत्वेन ज्ञातः पिकत्वेन ज्ञात इत्यर्थान्तरसंक्रमितवाच्यौ ॥ यथावा --
 
वाराणसीवासवतां जनानां साधारणे शंकरलाञ्छनेऽपि ।
पार्थप्रहारव्रणमुत्तमाङ्गं प्राचीनमीशं प्रकटीकरोति ॥ १४८ ॥
 
----------------
 
उत्तरालंकारः ८३
 
किंचिदाकूतसहितं स्याद्गूढोत्तरमुत्तरम् ।
यत्रासौ वेतसी पान्थ तत्रेयं सुतरा सरित् ॥ १४९ ॥
 
सरित्तरणमार्गं पृच्छन्तं प्रति तं कामयमानाया उत्तरमिदम् । वेतसीकुञ्जे स्वाच्छन्द्यमित्याकूतगर्भम् । यथावा --
 
ग्रामेऽस्मिन्प्रस्तरप्राये न किंचित्पान्थ विद्यते ।
पयोधरोन्नतिं दृष्ट्वा वस्तुमिच्छसि चेद्वस ॥
 
आस्तरणादिकमर्थयमानं पान्थं प्रत्युक्तिरियम् । स्तनोन्नतिं दृष्ट्वा रन्तुमिच्छसि चेद्वस । अविदग्धजनप्रायेऽस्मिन्ग्रामे कश्चिदवगमिष्यतीत्येतादृशं प्र-
 
[commentary]
 
लंकारादित्यलं विस्तरेण ॥ नृत्यदिति ॥ नृत्यं कुर्वतो भर्गस्य हरस्य योऽट्टहासस्तत्प्रसरस्य समूहस्य विस्तारस्य वा सहचरैः सदृशैरित्यर्थः । ईदृक्कीर्तिवच्छुक्ल एष कमलाकामुको नाभिकमलपरिमलस्य प्रौढिं समृद्धिं यदि नासादयिष्यन्नाधारयिष्यदिव्त्यन्वयः । यत्तु तद्गुणस्यात्र निर्वाबाधकत्वात्कथं तत्प्रतिद्वन्द्वित्वमुन्मीलि तस्येति तदनुक्तोपालम्भरूपत्वादुपेक्ष्यम् । तद्गुणेन भेदानध्यवसायमात्रस्योक्तत्वात् ॥ वाराणसीति ॥ तृतीयलोचनादिचिह्ने साधारणेऽपि सतीत्यन्वयः । पार्थोऽर्जुनस्तेन कृतो यः प्रहारस्तेन व्रणो यत्र तादृशमुत्तमाङ्गं शिरः । पूर्वत्र स्वाभाविकगुणसाम्यमिह त्वागन्तुकगुणसाम्यमिति भेदः ॥ १४८ ॥ इत्युन्मीलित -- -विशेषकालंकारौ ॥ ८१ ॥ ८२ ॥
 
किंचिदिति ॥ किंचिदभिप्रायसहितं गूढमुत्तरमुत्तरं नामालंकारः । वेतसी वेतसलता । सुखेन तरितुं योग्या सुतरा ॥ ग्राम इति ॥ प्रस्तरप्राये पाषाणबहुले पाषाणतुल्ये च 'प्रायो बाहुल्यतुल्ययोः' इति कोशात् । किंचिदास्तरणादिकं समागमप्रतिबन्धकं च । पयोधरो मेघः स्तनश्च । कश्चिदवगमिष्यति ज्ञास्यतीत्येतादृशमित्यादिरूपम् । उन्नेयः कल्प्यः प्रश्नो येन ।