This page has been fully proofread once and needs a second look.

१५४
 
कुवलयानन्दः ।
 
[उत्तरालंकारः ८३
 
नृत्यद्भर्गाट्टहासप्रसरसहचरैस्तावकीनैर्यशोभि-

र्धावल्यं नीयमाने त्रिजगति परितः श्रीनृसिंहक्षितीन्द्र ।
.

नेदृग्यद्येष नाभीकमलपरिमलप्रौढिमासादयिष्य-

द्देवानां नाभविष्यत्कथमपि कमलाकामुकस्यावबोधः ॥

 
काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः ।

वसन्तसमये प्राप्ते काकः काकः पिकः पिकः ॥
 

 
इदं विशेषकस्योदाहरणम् । अत्र द्वितीयकाकपिकशब्दौ काकत्वेन ज्ञातः
पिकत्वेन ज्ञात इत्यर्थान्तरसंक्रमितवाच्यौ ॥ यथावा-
-
 
--
 
वाराणसीवासवतां जनानां साधारणे शंकरलाञ्छनेऽपि ।

पार्थप्रहारव्रणमुत्तमाङ्गं प्राचीनमीशं प्रकटीकरोति ॥ १४८ ॥
 

 
----------------
 
उत्तरालंकारः ८३
 

 
किंचिदाकृकूतसहितं स्याद्गूढोत्तरमुत्तरम् ।
 

यत्रासौ वेतसी पान्थ तत्रेयं सुतरा सरित् ॥ १४९ ॥

 
सरित्तरणमार्गं पृच्छन्तं प्रति तं कामयमानाया उत्तरमिदम् । वेतसीकुञ्जे
स्वाच्छन्द्यमित्याकूतगर्भम् । यथावा-
--
 
ग्रामेऽस्मिन्प्रस्तरप्राये न किंचित्पान्थ विद्यते ।

पयोधरोन्नतिं दृष्ट्वा वस्तुमिच्छसि चेद्वस ॥

 
आस्तरणादिकमर्थयमानं पान्थं प्रत्युक्तिरियम् । स्तनोन्नतिं दृष्ट्वा रन्तुमि-
च्छसि चेद्वस । अविदग्धजनप्रायेऽस्मिन्ग्रामे कश्चिदवगमिष्यतीत्येतादृशं प्र
 
-
 
[commentary]
 
लंकारादित्यलं विस्तरेण ॥ नृत्यदिति ॥ नृत्यं कुर्वतो भर्गस्य हरस्य योऽट्टहास-
स्तत्प्रसरस्य समूहस्य विस्तारस्य वा सहचरैः सदृशैरित्यर्थः । ईदृक्कीर्तिवच्छुक्ल
कमलाकामुको नाभिकमलपरिमलस्य प्रौढिं समृद्धिं यदि नासादयिष्यन्नाधा-
रयिष्यदिव्यन्वयः । यत्तु तद्गुणस्यात्र निर्वाधकत्वात्कथं तत्प्रतिद्वन्द्वित्वमुन्मीलि
तस्येति तदनुक्तोपालम्भरूपत्वादुपेक्ष्यम् । तद्गुणेन भेदानध्यवसायमात्रस्योक्त-
ला
त्वात् ॥ वाराणसीति ॥ तृतीयलोचनादिचिह्ने साधारणेऽपि सतीत्यन्वयः ।
पार्थोऽर्जुनस्तेन कृतो यः प्रहारस्तेन व्रणो यत्र तादृशमुत्तमाङ्गं शिरः । पूर्वत्र
स्वाभाविक गुणसाम्यमिह लात्वागन्तुकगुणसाम्यमिति भेदः ॥ १४८ ॥ इत्युन्मी-
लित -- विशेषकालंकारौ ॥ ८१ ॥ ८२ ॥
 

 
किंचिदिति ॥ किंचिदभिप्रायसहितं गूढमुत्तरमुत्तरं नामालंकारः । वेतसी
वेतसलता । सुखेन तरितुं योग्या सुतरा ॥ ग्राम इति ॥ प्रस्तरप्राये पाषाण-
बहुले पाषाणतुल्ये च 'प्रायो बाहुल्यतुल्ययोः' इति कोशात् । किंचिदास्त
रणादिकं समागमप्रतिबन्धकं च । पयोधरो मेघः स्तनश्च । कश्चिदवगमि-
ष्यति ज्ञास्यतीत्येतादृशमित्यादिरूपम् । उन्नेयः कल्प्यः प्रश्नो येन ।