2023-02-17 12:59:06 by ambuda-bot
This page has not been fully proofread.
उन्मीलित- विशेषालंकारौ ८१८२] अलंकारचन्द्रिकासहितः । १५३
मल्लिकामालभारिण्य इत्यादिषु तु सामान्यालंकार इत्याहुः । तन्मते पद्माकर-
प्रविष्टानामित्यादौ भेदाध्यवसायेऽपि व्यावर्तकास्फुरणेनालंकारान्तरेण भा-
व्यम् । सामान्यालंकारान्तरभेदेन वा पूर्वस्मिन्मते स्वरूपतिरोधानेऽलंकारा-
न्तरेण भाव्यं मीलितावान्तरभेदेन वा ॥ १४७ ॥
उन्मीलित-विशेषालंकारौ ८१ । ८२
भेदवैशिष्ट्ययोः स्फूर्तावुन्मीलितविशेषको ।
हिमाद्रिं त्वद्यशो म सुराः शीतेन जानते ॥
लक्षितान्युदिते चन्द्रे पद्मानि च मुखानि च ॥ १४८ ॥
मीलितन्यायेन भेदानध्यवसाये प्राप्ते कुतोऽपि हेतोर्भेदस्फूर्तौ मीलितप्र-
तिद्वन्ब्युन्मीलितम् । तथा सामान्यरीत्या विशेषास्फुरणे प्राप्ते कुतश्चित्कार-
णाद्विशेषस्फूर्ती तत्प्रतिद्वन्द्वी विशेषकः । क्रमेणोदाहरणद्वयम् । तद्गुणरीत्यापि
भेदानध्यवसायप्राप्तावुन्मीलितं दृश्यते । यथा -
वाक्यरूपाः । इति प्रकारेण मृगदृशामङ्गके लीलया स्वतः स्वभावात्स्फुरितं प्रकटी-
भूतं तत्तस्मादत्राङ्गके कृतपदः कृतस्थितिः ॥ भेदाध्यवसायेऽपीति । मु-
खपद्मयोर्भेदावभासेऽपीत्यर्थः । व्यावर्तकास्फुरणेन हेतुना ॥ अलंकारान्तरेणे-
ति ॥ स्वरूपातिरोधानेन मीलितासंभवाद्भेदातिरोधानेन च सामान्यस्याप्यसंभ-
वादिति भावः ॥ सामान्येति ॥ तथाच गुणसाम्याद्विशेषाग्रह इति सामान्या-
लंकारसामान्यलक्षणम् । विशेषाग्रहश्च क्वचिद्भेदे गृह्यमाणे कचिच्चागृह्यमाण
इत्याद्यप्रकारान्तरगतिरत्र तन्मते स्यादिति भावः । अवान्तरभेदेन वेत्यनन्तरं
भावमित्यनुषज्यते ॥ पूर्वस्मिन्निति ॥ मीलितं यदि सादृश्यादित्यादिपूर्वोक्त
चन्द्रालोककृन्मत इत्यर्थः । स्वरूपतिरोधानेऽपाङ्गतरल इत्यादिवरूपतिरोधान-
स्थले ॥ अलंकारान्तरेणेत्यादि ॥ स्वरूपतो ज्ञायमाने सादृश्याद्भेदाग्रहणं
मीलितमित्यङ्गीकारे प्रथमः पक्षः । सादृश्याद्भेदाग्रहणमित्येतावन्मात्रमीलितल-
क्षणाङ्गीकारेण द्वितीय इति भावः ॥ १४७ ॥ इति सामान्यालंकारः ॥ ८० ॥
भेदेति ॥ वैशिष्ट्यं वैजात्यम् । उन्मीलितं विशेषकश्च क्रमेणालंकारौ । मनं
भेदाग्रहात्तदन्तर्गतम् ॥ लक्षितानीति ॥ संकुचितत्वादिति भावः । सामान्य-
रीत्या सामान्यालंकारन्यायेन । एवंच 'वेत्रत्वचा तुल्यरुचां वधूनां कर्णाग्रतो
गण्डतलागतानि । भृङ्गाः सहेलं यदि नापतिष्यन्कोऽवेदयिष्यन्नवचम्पकानि ॥'
इत्यपि विशेषकोदाहरणं बोध्यम् । यत्त्वनुमानालंकारेणैव गतार्थत्वान्नानयोरलं-
कारान्तरत्वमिति । तदयुक्तम् । उदाहृतस्थले भेदविशेषस्फूर्त्योर्विशेष दर्शन हेतुक-
प्रत्यक्षरूपत्वात् । अथापि स्वकपोलकल्पितपरिभाषयानुमानालंकारतां ब्रूषे तथापि
सादृश्यमहिम्ना प्रागनवगतयोर्भेदवैजात्ययोः स्फुरणात्मना विशेषाकारेण मीलित-
सामान्यप्रतिद्वन्द्विना युतमेवालंकारान्तरत्वम् । अतद्रुणावज्ञयोरिव विशेषोक्त्य-
कुव० १५
-