This page has been fully proofread twice.

मल्लिकामालभारिण्य इत्यादिषु तु सामान्यालंकार इत्याहुः । तन्मते पद्माकरप्रविष्टानामित्यादौ भेदाध्यवसायेऽपि व्यावर्तकास्फुरणेनालंकारान्तरेण भाव्यम् । सामान्यालंकारान्तरभेदेन वा पूर्वस्मिन्मते स्वरूपतिरोधानेऽलंकारान्तरेण भाव्यं मीलितावान्तरभेदेन वा ॥ १४७ ॥
 
------------

 
उन्मीलित-विशेषालंकारौ ८१ । ८२
 
भेदवैशिष्ट्ययोः स्फूर्तावुन्मीलितविशेषकौ ।
हिमाद्रिं त्वद्यशो मग्नं सुराः शीतेन जानते ॥
लक्षितान्युदिते चन्द्रे पद्मानि च मुखानि च ॥ १४८ ॥
 
मीलितन्यायेन भेदानध्यवसाये प्राप्ते कुतोऽपि हेतोर्भेदस्फूर्तौ मीलितप्रतिद्वन्द्व्युन्मीलितम् । तथा सामान्यरीत्या विशेषास्फुरणे प्राप्ते कुतश्चित्कारणाद्विशेषस्फूर्तौ तत्प्रतिद्वन्द्वी विशेषकः । क्रमेणोदाहरणद्वयम् । तद्गुणरीत्यापि भेदानध्यवसायप्राप्तावुन्मीलितं दृश्यते । यथा --
 
[Commentary]
 
वाक्यरूपाः । इति प्रकारेण मृगदृशामङ्गके लीलया स्वतः स्वभावात्स्फुरितं प्रकटीभूतं तत्तस्मादत्राङ्गके कृतपदः कृतस्थितिः ॥ भेदाध्यवसायेऽपीति । मुखपद्मयोर्भेदावभासेऽपीत्यर्थः । व्यावर्तकास्फुरणेन हेतुना ॥ अलंकारान्तरेणेति ॥ स्वरूपातिरोधानेन मीलितासंभवाद्भेदातिरोधानेन च सामान्यस्याप्यसंभवादिति भावः ॥ सामान्येति ॥ तथाच गुणसाम्याद्विशेषाग्रह इति सामान्यालंकारसामान्यलक्षणम् । विशेषाग्रहश्च क्वचिद्भेदे गृह्यमाणे क्वचिच्चागृह्यमाण इत्याद्यप्रकारान्तरगतिरत्र तन्मते स्यादिति भावः । अवान्तरभेदेन वेत्यनन्तरं
भावमित्यनुषज्यते ॥ पूर्वस्मिन्निति ॥ मीलितं यदि सादृश्यादित्यादिपूर्वोक्तचन्द्रालोककृन्मत इत्यर्थः । स्वरूपतिरोधानेऽपाङ्गतरल इत्यादिवरूपतिरोधानस्थले ॥ अलंकारान्तरेणेत्यादि ॥ स्वरूपतो ज्ञायमाने सादृश्याद्भेदाग्रहणं मीलितमित्यङ्गीकारे प्रथमः पक्षः । सादृश्याद्भेदाग्रहणमित्येतावन्मात्रमीलितलक्षणाङ्गीकारेण द्वितीय इति भावः ॥ १४७ ॥ इति सामान्यालंकारः ॥ ८० ॥ भेदेति ॥ वैशिष्ट्यं वैजात्यम् । उन्मीलितं विशेषकश्च क्रमेणालंकारौ । मग्नं भेदाग्रहात्तदन्तर्गतम् ॥ लक्षितानीति ॥ संकुचितत्वादिति भावः । सामान्यरीत्या सामान्यालंकारन्यायेन । एवंच 'वेत्रत्वचा तुल्यरुचां वधूनां कर्णाग्रतो गण्डतलागतानि । भृङ्गाः सहेलं यदि नापतिष्यन्कोऽवेदयिष्यन्नवचम्पकानि ॥' इत्यपि विशेषकोदाहरणं बोध्यम् । यत्त्वनुमानालंकारेणैव गतार्थत्वान्नानयोरलंकारान्तरत्वमिति । तदयुक्तम् । उदाहृतस्थले भेदविशेषस्फूर्त्योर्विशेषदर्शनहेतुकप्रत्यक्षरूपत्वात् । अथापि स्वकपोलकल्पितपरिभाषयानुमानालंकारतां ब्रूषे तथापि सादृश्यमहिम्ना प्रागनवगतयोर्भेदवैजात्ययोः स्फुरणात्मना विशेषाकारेण मीलितसामान्यप्रतिद्वन्द्विना युतमेवालंकारान्तरत्वम् । अतद्रुणावज्ञयोरिव विशेषोक्त्य-
 
कुव० १५