2023-04-27 07:42:14 by Bharadwajraki
This page has been fully proofread twice.
सामान्यालंकारः ८०
सामान्यं यदि सादृश्याद्विशेषो नो[^१]पलक्ष्यते ।
पद्माकरप्रविष्टानां मुखं नालक्षि सुभ्रुवाम् ॥ १४७ ॥
यथावा --
रत्नस्तम्भेषु सं[^२]क्रान्तप्रतिबिम्बशतैर्वृतः ।
लङ्केश्वरः सभामध्ये न ज्ञातो वालिसूनुना ॥
मीलितालंकारे एकेनापरस्य भिन्नस्वरूपानवभासरूपं मीलनं क्रियते । सामान्यालंकारे तु भिन्नस्वरूपावभासेऽपि व्यावर्तकविशेषो नोपलक्ष्यत इति भेदः । मीलितोदाहरणे हि चरणादेर्वस्त्वन्तरत्वेनागन्तुकं यावकादि न भासते । सामान्योदाहरणे तु पद्मानां मुखानां च व्यक्त्यन्तरतया भानमस्त्येव । यथा रावणदेहस्य तत्प्रतिबिम्बानां च, किंत्विदं पद्ममिदं मुखमयं बिम्बोऽयं प्रतिबिम्ब इति विशेषः परं नोपलक्ष्यते । अतएव भेदतिरोधानान्मीलितं तदतिरोधानेऽपि साम्येन व्यावर्तकानवभासे सामान्यमित्युभयोरप्यन्वर्थता । केचित्तु वस्तुद्वयस्य लक्षणसाम्यात्तयोः केनचिद्बलीयसा तदन्यस्य स्वरूपतिरोधाने मीलितं स्वरूपप्रतीतावपि गुणसाम्याद्भेदतिरोधाने सामान्यम् । एवंच --
अपाङ्गतरले दृशौ तरलवक्रवर्णा गिरो
विलासभरमन्थरा गतिरतीव कान्तं मुखम् ।
इति स्फुरितमङ्गके मृगदृशां स्वतो लीलया
तदत्र न महोदयः कृतपदोऽपि संलक्ष्यते ॥
इत्यत्र मीलितालंकारः । अत्रहि दृक्तारल्यादीनां नारीवपुषः सहजधर्मत्वान्मदोदयकार्यत्वाच्च तदुभयसाधारण्यादुत्कृष्टतारल्यादियोगिना वपुषा मदोदयस्य स्वरूपमेव तिरोधीयते ।लिङ्गसाधारण्येन तज्ज्ञानोपायाभावात् ।
[Commentary]
सामान्यमिति ॥ सामान्यमिति लक्ष्यनिर्देशः । विशेषो व्यावर्तकधर्मः । पद्मानामाकरः ॥ रत्नस्तम्भेष्विति ॥ वालिसूनुनाङ्गदेन । एकेन चरणज्योत्स्नादिना । अपरस्य लाक्षारसाभिसारिकादेः ॥ भिन्नस्वरूपेति ॥ मुखपद्मादेर्भिन्नस्य स्वरूपस्यावभासेऽपीत्यर्थः । उक्तमेवार्थमुदाहरणारूढतया विशदयति -- मीलितोदाहरणे हीत्यादिना ॥ वस्त्वन्तरत्वेन न भासत इत्यन्वयः । तत्प्रतिबिम्बानां च व्यक्त्यन्तरतया भानमस्त्येवेत्यनुषङ्गः ।केचिदित्यस्याहुरित्यग्रिमेणान्वयः। केचित्प्रकाशकारादयः । तदुक्तम् -- 'समेन लक्ष्मणा वस्तु वस्तुना यन्निगृह्यते । निजेनागन्तुना वापि तन्मीलितमिति स्मृतम् ॥ इति तयोर्मध्ये एवं चेत्यस्येत्यत्र मीलितालंकार इत्यग्रेतनेनान्वयः ॥ अपाङ्गेति ॥ अपाङ्गस्तरलो ययोस्ते । तरलाः सत्वरोच्चारणात् वक्रा वक्रोक्तिगर्भा वर्णा यासु ताः गिरो
[^१] 'नैव लक्ष्यते'.
[^२] 'संक्रान्तः'.