This page has been fully proofread once and needs a second look.

१५२
 
यथावा-
-
 
[
सामान्यालंकारः ८०
 
कुवलयानन्दः ।
 
सामान्यालंकारः ८०
 

 
सामान्यं यदि सादृश्याद्विशेषो नो[‌^१]पलक्ष्यते ।

पद्माकरप्रविष्टानां मुखं नालक्षि सुभ्रुवाम् ॥ १४७ ॥
 

 
यथावा --
 
रत्नस्तम्भेषु सं[‌^२]क्रान्तप्रतिबिम्बशतैर्वृतः ।
 

लङ्केश्वरः सभामध्ये न ज्ञातो वालिसूनुना ॥
 

 
मीलितालंकारे एकेनापरस्य भिन्नस्वरूपानवभासरूपं मीलनं क्रियते ।
सामान्यालंकारे तु भिन्न स्वरूपावभासेऽपि व्यावर्तकविशेषो नोपलक्ष्यत इति
भेदः । मीलितोदाहरणे हि चरणादेर्वस्त्वन्तरत्वेनागन्तुकं यावकादि न भा-
सते । सामान्योदाहरणे तु पद्मानां मुखानां च व्यक्त्यन्तरतया भानमस्त्येव ।
यथा रावणदेहस्य तत्प्रतिबिम्बानां च, किंत्विदं पद्ममिदं मुखमयं बिम्बोऽयं
प्रतिबिम्ब इति विशेषः परं नोपलक्ष्यते । अतएव भेदतिरोधानान्मीलितं
तदतिरोधानेऽपि साम्येन व्यावर्तकानवभासे सामान्यमित्युभयोरप्यन्वर्थता ।
केचित्तु वस्तुद्वयस्य लक्षणसाम्यात्तयोः केनचिद्लीयसा तदन्यस्य स्वरूपति-
रोधाने मीलितं स्वरूपप्रतीतावपि गुणसाम्याद्भेदतिरोधाने सामान्यम् ।
एवंच -
-
 
अपाङ्गतरले दृशौ तरलवक्रवर्णा गिरो
 

विलासभरमन्थरा गतिरतीव कान्तं मुखम् ।

इति स्फुरितमङ्गके मृगदृशां स्वतो लीलया
 

तदत्र न महोदयः कृतपदोऽपि संलक्ष्यते ॥
 

 
इत्यत्र मीलितालंकारः । अत्रहि दृक्तारल्यादीनां नारीवपुषः सहजधर्म-
त्वान्मदोदयकार्यत्वाच्च तदुभयसाधारण्यादुत्कृष्टतारल्यादियोगिना वपुपाषा
दोदयस्य स्वरूपमेव तिरोधीयते । लिङ्गसाधारण्येन तज्ज्ञानोपायाभावात् ।
 

 
[Commentary]
 
सामान्यमिति ॥ सामान्यमिति लक्ष्यनिर्देशः । विशेषो व्यावर्तकधर्मः ।
पद्मानामाकरः ॥ रत्नस्तम्भेष्विति ॥ वालिसूनुनाङ्गदेन । एकेन चरणज्योत्स्ना
दिना । अपरस्य लाक्षारसाभिसारिकादेः ॥ भिन्न स्वरूपेति ॥ मुखपद्मादेर्भि-
न्नस्य स्वरूपस्यावभासेऽपीत्यर्थः । उक्तमेवार्थमुदाहरणारूढतया विशदयति -
- मीलितोदाहरणे हीत्यादिना ॥ वस्त्वन्तरत्वेन न भासत इत्यन्वयः ।
तत्प्रतिविबिम्बानां च व्यक्त्यन्तरतया भानमस्त्येवेत्यनुषङ्गः । केचिदित्यस्याहुरित्य-
ग्रिमेणान्वयः। केचित्प्रकाशकारादयः । तदुक्तम् -- 'समेन लक्ष्मणा वस्तु वस्तुना
यन्निगृह्यते । निजेनागन्तुना वापि तन्मीलितमिति स्मृतम् ॥ इति तयोर्मध्ये
एवं चेत्यस्येत्यत्र मीलितालंकार इत्यग्रेतनेनान्वयः ॥ अपाङ्गेति ॥ अपाङ्गस्तरलो
योस्ते । तरलाः सत्वरोच्चारणात् वक्रा वक्रोक्तिगर्भा वर्णा यासु ताः गिरो
 
-
 

 
[‌^१]
' नैव लक्ष्यते'.
[‌^
] 'संक्रान्त: तः'.
 
4