2023-04-27 07:52:52 by Bharadwajraki
This page has been fully proofread twice.
न निर्विशेषोक्तिः सति पुष्कलकारणे' इति तत्सामान्यलक्षणाक्रान्तत्वात् ।तथाप्युल्लासतद्गुणप्रतिद्वन्द्विना विशेषालंकारेणालंकारान्तरतया परिगणिताविति ध्येयम् ॥ १४४ ॥
--------------
अनुगुणालंकारः ७८
प्राक्सिद्ध[^१]त्वगुणोत्कर्षोऽनुगुणः परसंनिधेः ।
नीलोत्पलानि दधते कटाक्षैरतिनीलताम् ॥ १४५ ॥
यथा --
कपिरपि च कापिशायनमदमत्तो वृश्चिकेन संदष्टः ।
अपि च पिशाचग्रस्तः किं ब्रूमो वैकृतं तस्य ॥
अत्र कपित्वजात्या स्वतःसिद्धस्य वैकृतस्य मद्यादिभिरुत्कर्षः ॥ १४५ ॥
--------------
मीलितालंकारः ७९
मीलितं यदि एव न ल[^२]क्ष्यते ।
रसो नालक्षि लाक्षायाश्चरणे सहजारुणे ॥ १४६ ॥
यथावा --
मल्लिकामा[^३]ल्यभारिण्यः सर्वाङ्गीणार्द्रचन्दनाः ।
क्षौमवत्यो न लक्ष्यन्ते ज्योत्स्नायामभिसारिकाः ॥
अत्राद्ये चरणालक्तकरसयोररुणिमगुणसाम्याद्भेदानध्यवसायः । द्वितीयोदाहरणे चन्द्रिकाभिसारिकाणां धवलिमगुणसाम्याद्भेदानध्यवसायः ॥१४६॥
--------------
[commentary]
प्रोञ्छति तदपि तथापि दिक्षु हिमकरस्य चन्द्रस्य यत्किरणाद्वैतं तस्य सौवस्तिकी । स्वस्तीत्याहेत्यर्थे 'तदाहेति माशब्दादिभ्यष्ठग्वाच्यः' इत्यनेन ठक् प्रत्ययः । तत्सदृशीति यावत् । स्फुरति प्रकाशत इत्यर्थः ॥ विशेषाकारेणेति ॥ प्राग्लक्षितविशेषरूपेणेत्यर्थः ॥ १४४ ॥ इत्यतद्गुणालंकारः ॥ ७७ ॥
प्रागिति ॥ परसंनिधिवशात्पूर्वसिद्धस्य स्वगुणस्योत्कर्षोऽनुगुणो नामालंकारः । नीलोत्पलानि कर्णावतंसीकृतानि ॥ कपिरिति ॥ कापिशायनं मद्यम् ॥ १४५ ॥ इत्यनुगुणालंकारः ॥ ७८ ॥
मीलितमिति लक्ष्यनिर्देशः ॥ रस इति ॥ स्वभावलोहिते चरणे लाक्षाया रसो नालक्षि न ज्ञातः ॥ मल्लिकेति ॥ क्षौमं दुकूलं तद्धारिण्यः ॥ १४६ ॥ इति मीलितालंकारः ॥ ७९ ॥
[^१] 'सिद्धस्वगुणो', 'सिद्धेः स्वगुणो'.
[^२] 'दृश्यते'.
[^३] 'मालभारिण्यः'.