This page has been fully proofread once and needs a second look.

मीलितालंकारः ७९ ] अलंकारचन्द्रिकासहितः ।
 
१५१
 
न निर्विशेषोक्तिः सति पुष्कलकारणे' इति तत्सामान्यलक्षणाक्रान्तत्वात् ।
तथाप्युल्लासतद्गुणप्रतिद्वन्द्विना विशेपाषालंकारेणालंकारान्तरतया परिगणिता-
विति ध्येयम् ॥ १४४ ॥
 
यथा-

 
अनुगुणालंकारः ७८
ग्

 
प्
राक्सिर्द्ध[‌^१]त्वगुणोत्कर्षोऽनुगुणः परसंनिधेः ।

नीलोत्पलानि दधते कटाक्षैरतिनीलताम् ॥ १४५ ॥
 

 
यथा --
 
कपिरपि च कापिशायनमदमत्तो वृश्चिकेन संदृष्टः ।

अपि च पिशाचग्रस्तः किं ब्रूमो वैकृतं तस्य ॥
 

 
अत्र कपित्वजात्या स्वतः सिद्धस्य वैकृतस्य मद्यादिभिरुत्कर्षः ॥ १४५ ॥
 

 
मीलितालंकारः ७९
 

 
मीलितं यदि सादृश्याद्भेद एव न लेल[‌^२]क्ष्यते ।

रसो नालक्षि लाक्षायाश्चरणे सहजारुणे ॥ १४६ ॥
 

 
यथावा -
-
 
मल्लिकामौमा[‌^३]ल्यभारिण्यः सर्वाङ्गीणार्द्रचन्दनाः ।

क्षौमवत्यो न लक्ष्यन्ते ज्योत्स्नायामभिसारिकाः ॥

 
अत्राद्ये चरणालक्तकरसयोररुणिमगुणसाम्याद्भेदानध्यवसाय:यः । द्वितीयो-
दाहरणे चन्द्रिकाभिसारिकाणां धवलिमगुणसाम्याद्भेदानध्यवसायः ॥१४६॥
 

 
[commentary]
 
प्रोञ्छति तदपि तथापि दिक्षु हिमकरस्य चन्द्रस्य यत्किरणाद्वैतं तस्य सौवस्तिकी ।
स्वस्तीत्या हेत्यर्थे 'तदाहेति माशब्दादिभ्यष्ग्वाच्यः' इत्यनेन ठक् प्रत्ययः । तत्स-
दृशीति यावत् । स्फुरति प्रकाशत इत्यर्थः ॥ विशेषाकारेणेति ॥ प्राग्लक्षि-
तविशेषरूपेणेत्यर्थः ॥ १४४ ॥ इत्यतद्गुणालंकारः ॥ ७७ ॥
 

 
प्रागिति ॥ परसंनिधिवशात्पूर्व सिद्धस्य स्वगुणस्योत्कर्षोऽनुगुणो नामालंकारः ।
नीलोत्पलानि कर्णावतंसीकृतानि ॥ कपिरिति ॥ कापिशायनं मद्यम् ॥ १४५ ॥
इत्यनुगुणालंकारः ॥ ७८ ॥
 

 
मीलितमिति लक्ष्य निर्देशः ॥ रस इति ॥ स्वभावलोहिते चरणे लाक्षाया
रसो नालक्षि न ज्ञातः ॥ मल्लिकेति ॥ क्षौमं दुकूलं तद्धारिण्यः ॥ १४६ ॥
इति मीलितालंकारः ॥ ७९ ॥
 

 
[‌^
] 'सिद्धस्वगुणो', 'सिद्धे:धेः स्वगुणो'.
[‌^
] 'दृश्यते'.
[‌^
] 'मालभारिण्यः'.