2023-02-17 12:59:06 by ambuda-bot
This page has not been fully proofread.
कुवलयानन्दः । [ अतद्गुणालंकारः ७७
१५०
लक्षणे चकारात्पूर्वरूपमिति लक्ष्यवाचकपदानुवृत्तिः । यथावा-
द्वारं खड्गिभिरावृतं बहिरपि प्रस्विन्नगण्डैर्गजै-
रन्तः कञ्चुकिभिः स्फुरन्मणिधरैरध्यासिता भूमयः ।
आक्रान्तं महिपीभिरेव शयनं त्वद्विद्विषां मन्दिरे
राजन्सैव चिरंतनप्रणयिनी शून्येऽपि राज्यस्थितिः ॥ १४३ ॥
अतहुणालंकारः ७७
संगतान्यगुणानङ्गीकारमाहुरतद्गुणम् ।
चिरं रागिणि मच्चित्ते निहितोऽपि न रञ्जसि ॥ १४४॥
यथावा-
गण्डाभोगे विहरति मंदैः पिच्छिले दिग्गजानां
वैरिस्त्रीणां नयनकमले वञ्जनानि प्रमाटि ।
यद्यप्येषा हिमकरकराद्वैत सवस्तिकी ते
कीर्तिर्दिक्षु स्फुरति तदपि श्रीनृसिंहक्षितीन्द्र ॥
ननु चान्यगुणेनान्यत्र गुणोदयानुदयरूपाभ्यामुल्लासावज्ञालंकाराभ्यां तद्गु-
णातद्गुणयोः को भेदः । उच्यते । उल्लासावज्ञालक्षणयोर्गुणशब्दो दोपप्रतिप
क्षवाची । अन्यगुणेनान्यत्र गुणोदयतदनुदयौ च न तस्यैव गुणस्य संक्रमणा-
संक्रमणे किंतु सद्गुरूपदेशेन सदसच्छिष्ययोर्ज्ञानोत्पत्त्यनुत्पत्तिवत्तद्गुणजन्यत्वेन
संभावितयोर्गुणान्तरयोरुत्पत्त्यनुत्पत्ती । तद्गुणातद्गुणयोः पुनर्गुणशब्दो रूपर-
सगन्धादिगुणवाची । तत्रान्यदीयगुणग्रहणाग्रहणे च रक्तस्फटिकवस्त्रमालि-
न्यादिन्यायेनान्यदीयगुणेनैवानुरञ्जनाननुरञ्जने विवक्षिते । तथैव चोदाहर-
णानि दर्शितानि । यद्यप्यवज्ञालंकृतिरतद्गुणश्च विशेषोक्तिविशेषावेव । 'कार्या
J
अनुवृत्तिरपि पूर्वरूपमलंकारः । महः प्रकाशः ॥ द्वारमिति ॥ हे राजन्, तव
वद्विषां मन्दिरे शून्येऽपि चिरंतनः प्रणयो यस्याः सैव राज्यस्य स्थितिमर्यादा ।
अस्तीति शेषः । यतो द्वारं खड्गिभिर्गण्डकाख्यपशुभिरेव खगधारिभिरावृतं । बहिरपि
भूमयो मदप्रस्विन्नगण्डैर्गजैरव्यासिताः । अन्तःपुरभूमयो विलसन्मणिधारिभिः
कञ्चुकिभिः सर्वैरेव सौविदल्लैरध्यासिताः । शयनं तल्पं महिषीभिर्वनिताभिरेव
महिषस्त्रीभिराक्रान्तमित्यन्वयः ॥ १४३ ॥ इति पूर्वरूपालंकारः ॥ ७६ ॥
संगतेति ॥ संगतः स्वसंबद्धो योऽन्यः पदार्थस्तद्गुणानङ्गीकारमतद्गुणालंका-
रमाहुः ॥ चिरमिति ॥ रागिण्यनुरागिणि मञ्जिष्ठादिरञ्जनद्रव्ययुक्ते च । निहि-
तोऽपि त्वं न रञ्जसि रक्तोऽनुरागयुक्तश्च न भवसीति लिष्टम् ॥ गण्डेति ॥ हे
श्रीमन्नृसिंहाख्यभूपते, एपा तव कीर्तिर्मदै: पिच्छिले पहिले दिग्गजानां गण्ड-
प्रदेशे यद्यपि विहरति तथा वैरिस्त्रीणां नयनकमलेषु स्थितान्यञ्जनानि प्रमार्ष्टि
१ ' राश्रितं'. २ 'तानुगुणा'. ३ ' निहितापि न रज्यसि'.