This page has been fully proofread twice.

लक्षणे चकारात्पूर्वरूपमिति लक्ष्यवाचकपदानुवृत्तिः । यथावा --
 
द्वारं खड्गिभि[‌^१]रावृतं बहिरपि प्रस्विन्नगण्डैर्गजै-
रन्तः कञ्चुकिभिः स्फुरन्मणिधरैरध्यासिता भूमयः ।
आक्रान्तं महिषीभिरेव शयनं त्वद्विद्विषां मन्दिरे
राजन्सैव चिरंतनप्रणयिनी शून्येऽपि राज्यस्थितिः ॥ १४३ ॥
 
----------------

 
अतद्गुणालंकारः ७७
 
संग[‌^२]तान्यगुणानङ्गीकारमाहुरतद्गुणम् ।
चिरं रागिणि मच्चित्ते निहि[‌^३]तोऽपि न रञ्जसि ॥ १४४॥
 
यथावा --
 
गण्डाभोगे विहरति मदैः पिच्छिले दिग्गजानां
वैरिस्त्रीणां नयनकमलेष्वञ्जनानि प्रमार्ष्टि ।
यद्यप्येषा हिमकरकराद्वैतसौवस्तिकी ते
कीर्तिर्दिक्षु स्फुरति तदपि श्रीनृसिंहक्षितीन्द्र ॥
 
ननु चान्यगुणेनान्यत्र गुणोदयानुदयरूपाभ्यामुल्लासावज्ञालंकाराभ्यां तद्गुणातद्गुणयोः को भेदः । उच्यते । उल्लासावज्ञालक्षणयोर्गुणशब्दो दोषप्रतिपक्षवाची । अन्यगुणेनान्यत्र गुणोदयतदनुदयौ च न तस्यैव गुणस्य संक्रमणासंक्रमणे किंतु सद्गुरूपदेशेन सदसच्छिष्ययोर्ज्ञानोत्पत्त्यनुत्पत्तिवत्तद्गुणजन्यत्वेन संभावितयोर्गुणान्तरयोरुत्पत्त्यनुत्पत्ती । तद्गुणातद्गुणयोः पुनर्गुणशब्दो रूपरसगन्धादिगुणवाची । तत्रान्यदीयगुणग्रहणाग्रहणे च रक्तस्फटिकवस्त्रमालिन्यादिन्यायेनान्यदीयगुणेनैवानुरञ्जनाननुरञ्जने विवक्षिते । तथैव चोदाहरणानि दर्शितानि । यद्यप्यवज्ञालंकृतिरतद्गुणश्च विशेषोक्तिविशेषावेव । 'कार्या
 
[commentary]
 
अनुवृत्तिरपि पूर्वरूपमलंकारः । महः प्रकाशः ॥ द्वारमिति ॥ हे राजन्, तव त्वद्द्विषां मन्दिरे शून्येऽपि चिरंतनः प्रणयो यस्याः सैव राज्यस्य स्थितिर्मर्यादा । अस्तीति शेषः । यतो द्वारं खड्गिभिर्गण्डकाख्यपशुभिरेव खड्गधारिभिरावृतं । बहिरपि भूमयो मदप्रस्विन्नगण्डैर्गजैरध्यासिताः । अन्तःपुरभूमयो विलसन्मणिधारिभिः कञ्चुकिभिः सर्पैरेव सौविदल्लैरध्यासिताः । शयनं तल्पं महिषीभिर्वनिताभिरेव महिषस्त्रीभिराक्रान्तमित्यन्वयः ॥ १४३ ॥ इति पूर्वरूपालंकारः ॥ ७६ ॥
 
संगतेति ॥ संगतः स्वसंबद्धो योऽन्यः पदार्थस्तद्गुणानङ्गीकारमतद्गुणालंकारमाहुः ॥ चिरमिति ॥ रागिण्यनुरागिणि मञ्जिष्ठादिरञ्जनद्रव्ययुक्ते च । निहितोऽपि त्वं न रञ्जसि रक्तोऽनुरागयुक्तश्च न भवसीति श्लिष्टम् ॥ गण्डेति ॥ हे श्रीमन्नृसिंहाख्यभूपते, एषा तव कीर्तिर्मदैः पिच्छिले पङ्किले दिग्गजानां गण्डप्रदेशे यद्यपि विहरति तथा वैरिस्त्रीणां नयनकमलेषु स्थितान्यञ्जनानि प्रमार्ष्टि
 
[‌^१] 'राश्रितं'.
[‌^२] 'तानुगुणा'.
[‌^३] ' निहितापि न रज्यसि'.