This page has been fully proofread twice.

तद्गुणालंकारः ७५
 
तद्गुणः स्वगुणत्यागादन्यदीयगुणग्रहः ।
पद्मरागायते नासामौक्तिकं तेऽधरत्विषा ॥ १४१ ॥
 
यथावा --
 
वीर त्वद्रिपुरमणी परिधातुं पल्लवानि संस्पृश्य ।
न हरति वनभुवि निजकररुहरुचिखनितानि पाण्डुपत्रधिया ॥ १४१ ॥
 
---------------

 
पूर्वरूपालंकारः ७६
 
पुनः स्वगुणसंप्राप्तिः पूर्वरूपमुदाहृतम् ।
हरकण्ठांशुलिप्तोऽपि शेष[‌^१]स्त्वद्यशसा सितः ॥ १४२ ॥
 
यथावा --
 
विभिन्नवर्णा गरुडाग्रजेन सूर्यस्य रथ्याः परितः स्फुरन्त्या ।
रत्नैः पुनर्यत्र रुचा रुचं स्वामानिन्यिरे वंशकरीरनीलैः ॥
 
अयमेव तद्गुण इति केचिद्व्यवजहुःह्रुः ॥ १४२ ॥
 
पूर्वावस्थानुवृत्तिश्च विकृते सति वस्तुनि ।
दीपे निर्वापितेऽप्यासीत्काञ्चीरत्नैर्महन्महः ॥ १४३ ॥
 
[commentary]
 
तद्गुण इति ॥ स्वगुणत्यागादनन्तरमन्यदीयगुणग्रहणं तद्गुणालंकारः ॥ पद्मेति ॥ तव नासामौक्तिकमधरकान्त्या पद्मरागवदाचरतीत्यर्थः ॥ वीरेति ॥ हे वीर, त्वदरिकामिनी वनभुवि परिधानं कर्तुं पल्लवानि करेण संस्पृश्य पाण्डुपत्रबुद्ध्या न हरति न गृह्णाति । कीदृशानि । निजकररुहाणां नखानां रुच्या श्वेतकान्त्या खचितानि व्याप्तानीत्यर्थः ॥ १४१ ॥ इति तद्गुणालंकारः ॥ ७५ ॥
 
पुनरिति ॥ स्वगुणत्यागानन्तरं पुनः स्वगुणप्राप्तिः पूर्वरूपमलंकारः ॥ हरेति ॥ नीलोऽपीति युक्तः पाठः ॥ विभिन्नेति ॥ माघे रैवतकगिरिवर्णनम् । गरुडाग्रजेनारुणेन विभिन्नवर्णा मिश्रितवर्णाः सूर्यस्य रथ्या अश्वा यत्र गिरौ वंशाङ्कुरवन्नीलै रत्नैः परितः स्फुरन्त्या रुचा स्वां रुचं नीलद्युतिमानिन्यिरे आनीतवन्तः । रुचा विभिन्नवर्णा इति वान्वयः । केचिदित्यस्वरसबीजं तु पद्मरागायत इत्युदाहरणे तद्गुणालंकारो न स्यात् । नचेष्टापत्तिः अनुभवसिद्धचमत्कारस्य
निरालम्बनत्वापत्तेरित्यूहनीयम् । अथवायं तद्गुण एवेत्येवकारक्रमभङ्गेन काव्यप्रकाशकारादिमतोपन्यासपरत्वेन व्याख्येयम् । तैरत्र तद्गुणस्योदाहृतत्वात् । अत्रहि
पूर्वमश्वानामरुणगुणत्वं अनन्तरं रैवतकरत्नैरुभयेषां तद्गुणत्वमिति तद्गुणद्वयमिति तेषामभिमतम् ॥ १४२ ॥ पूर्वेति ॥ वस्तुनि विकृते विगते सत्यपि पूर्वावस्थाया
 
[‌^१] 'शेषस्तु शशिना सितः'.