This page has been fully proofread once and needs a second look.

पूर्वरूपालंकारः ७६ ] अलंकारचन्द्रिकासहितः ।
 
तहु
तद्गुणालंकारः ७५
 
MA
 

 
तद्गुणः स्वगुणत्यागादन्यदीयगुणग्रहः ।

पद्मरागायते नासामौक्तिकं तेऽधरत्विषा ॥ १४१ ॥
 

 
यथावा -
-
 
वीर त्वद्रिपुरमणी परिधातुं पल्लवानि संस्पृश्य ।

न हरति वनभुवि निजकररुहरुचिखनितानि पाण्डुपत्रधिया ॥ १४१ ॥
 
यथावा-
-
 
१४९
 

 
पूर्वरूपालंकारः ७६
 

 
पुनः स्वगुणसंप्राप्तिः पूर्वरूपमुदाहृतम् ।

हरकण्ठांशुलिप्तोऽपि शेष[‌^१]स्त्वद्यशसा सितः ॥ १४२ ॥
 

 
यथावा --
 
विभिन्नवर्णा गरुडाग्रजेन सूर्यस्य रथ्याः परितः स्फुरन्त्या ।
रखैः

रत्नैः
पुनर्यत्र रुचा रुचं स्वामानिन्थियिरे वंशकरीरनीलैः ॥

 
अयमेव तद्गुण इति केचिद्व्यवदुःजहुः ॥ १४२ ॥
 

 
पूर्वावस्थानुवृत्तिश्च विकृते सति वस्तुनि ।

दीपे निर्वापितेऽप्यासीत्काञ्चीर लैत्नैर्महन्महः ॥ १४३ ॥
 
तहु

 
[commentary]
 
तद्गु
ण इति ॥ स्वगुणत्यागादनन्तरमन्यदीयगुणग्रहणं तद्गुणालंकारः ॥ प-
द्मेति ॥ तव नासामौक्तिकमधरकान्त्या पद्मरागवदाचरतीत्यर्थः ॥ वीरेति ॥
हे वीर, त्वदरिकामिनी वनभुवि परिधानं कर्तुतुं पल्लवानि करेण संस्पृश्य पाण्डुपत्र-
बुद्ध्या न हरति न गृह्णाति । कीदृशानि । निजकररुहाणां नखानां रुच्या श्वेत-
कान्त्या खचितानि व्याप्तानीत्यर्थः ॥ १४१ ॥ इति तद्गुणालंकारः ॥ ७५ ॥
 
-
 

 
पुनरिति ॥ स्वगुणत्यागानन्तरं पुनः स्वगुणप्राप्तिः पूर्वरूपमलंकारः ॥ हरे-
ति ॥ नीलोऽपीति युक्तः पाठः ॥ विभिन्नेति ॥ माघे रैवतकगिरिवर्णनम् ।
गरुडाग्रजेनारुणेन विभिन्नवर्णा मिश्रितवर्णाः सूर्यस्य रथ्या अश्वा यत्र गिरौ वंशा-
ङ्कुरवन्नीलै रत्नैः परितः स्फुरन्त्या रुचा खांस्वां रुचं नीलद्युतिमानिन्यिरे आनीत-
वन्तः । रुचा विभिन्नवर्णा इति वान्वयः । केचिदित्यस्वरसबीजं तु पद्मरागायत
इत्युदाहरणे तद्गुणालंकारो न स्यात् । नचेष्टापत्तिः अनुभवसिद्धचमत्कारस्य

निरालम्बनत्वापत्तेरित्यूहनीयम् । अथवायं तद्गुण एवेत्येवकारक्रमभङ्गेन काव्य-
प्रकाशकारा दिमतोपन्यासपरत्वेन व्याख्येयम् । तैरत्र तद्गुणस्योदाहृतत्वात् । अत्रहि

पूर्वमश्वानामरुणगुणत्वं अनन्तरं रैवतकरत्नैरुभयेषां तद्गुणत्वमिति तद्गुणद्वय मिति
तेषामभिमतम् ॥ १४२ ॥ पूर्वेति ॥ वस्तुनि विकृते विगते सत्यपि पूर्वावस्थाया
 

 
[‌^
] ' शेषस्तु शशिना सित:तः'.