This page has not been fully proofread.

१४८
 
यथावा-
कुवलयानन्दः । [ रत्नावल्यलंकारः ७४
 
लीलाजानां नयनयुगलद्वाघिमा दत्तपत्रः
कुम्भावेतौ कुशपरिकरः पूर्वपक्षीचकार ।
भ्रूविभ्रान्तिर्मदनधनुषो विभ्रमानन्ववादी-
द्वऋज्योत्स्ना शशधररुचं दूपयामास यस्याः ॥
 
-
 
अत्र पत्रदानपूर्वपक्षोपन्यासानुवाददूषणोद्भावनानि बुधजनप्रसिद्ध क्रमेण न्य-
स्तानि । प्रसिद्धसहपाठानां प्रसिद्धक्रमाननुसरणेऽध्ययमेवालंकारः । यथावा-
'यस्य वह्निमयो हृदयेषु जलमयो लोचनपुटेपु मारुतमयः श्वसितेपु क्षमा-
मयोऽङ्गेष्वाकाशमयः स्वान्तेषु पञ्चमहाभूतमयो मूर्त इवाइयत निहतप्रति-
सामन्तान्तः पुरेषु प्रतापः ।' एवमष्टलोकपालनवग्रहादीनां प्रसिद्धसहपाठानां
यथाकथंचित्प्रकृतोपमानोपरञ्जकतादिप्रकारेण निवेशने रखावल्यलंकारः । प्र-
कृतान्वयं विना ऋमिकतत्तन्नाम्ना श्लेषभङ्ग्या निवेशने क्रमप्रसिद्धरहितानां
प्रसिद्ध सहपाठानां नवरलादीनां निवेशनेऽव्यय मेवालंकरः ॥ १४० ॥
 
कामस्तस्य लाञ्छनं मत्स्यस्तद्रूपे । कठिनताया आवासे कूर्म । रसया पृथिव्या
स्वोद्धरणकाल आलिङ्गिते वराहे । प्रह्लादे को रसः प्रीतिर्यस्य तस्मिन्नृसिंहे ।
क्रमः पादविक्षेपस्तदनुसारेणोपचिते प्रवृद्धे वामने । भूभृतां राज्ञां गौरवनाशके
भार्गवे । कोकस्पर्धिनि सीतावियोगातुरतया चक्रवाकशापदे रामे । भोगः फणा
तद्भाजि शेषावतारे वलभद्रे । जनितमनङ्गमङ्गस्य शरीरस्य विरुद्धं मौनभोगत्या-
गसमाधिप्रभृति येन तस्मिन् वुद्धे । खलीनमश्वस्य वल्गा तदुन्मुखे कल्किनीति ॥
क्रमाननुसरणेऽपीति ॥ तथाच प्रसिद्धसहपाठानामर्थानां न्यसनं रत्नावलि-
रिति सामान्यलक्षणम् । सक्रमाक्रमत्वे तत्प्रभेदाविति भावः ॥ यस्येति ॥ यस्य
प्रतापो निहतानां प्रतिशत्रुभूतानामन्तः पुरेषु पञ्चमहाभूतमयो मूर्त इवादृश्यतेल-
न्वयः । पञ्चमहाभूतमयत्वमेव विशेषणदर्शयति – वह्निमय इत्यादि ॥ अङ्गेषु
क्षमामयः पृथ्वीमयः पीडाभरसहिष्णुत्वात् । स्वान्तेष्वन्तःकरणेषु आकाशमयः
तेषां शून्यताश्रयत्वात् । यथाकथंचिदित्यस्य प्रपञ्चनं प्रकृतोपमानेत्यादि ।
उपमानं चोपरञ्जकं चोपमानोपरञ्जके तयोर्भावस्तत्ता । प्रकृतं प्रत्युपमानता उपर
जकता चेत्यर्थः । उपरञ्जकता चारोप्यमाणता । तदुक्तम् – 'उपरञ्जकतामेति
विषयी रूपकं तदा' इति । तत्रोपमानता रविरिव प्रतिदिवसोपजायमानोदय इ-
यादिवत् । उपरञ्जकता तु चतुरास्य इत्यायुदाहरणे वह्निमय इत्यादिप्रतापवर्णने
च स्पष्टेति ॥ प्रकृतान्वयं विनेति ॥ 'मित्र चन्द्रमुखी बाला लोहिताधरपल्ल-
वा' इत्यादाविति भावः । क्रमिकेत्युपलक्षणम् । तदभावेऽपि 'गुरुणा जघनेनैषा
तरुणी मन्दगामिनी' इत्यादावप्ययमलंकार इति बोध्यम् ॥ १४० ॥ इति रत्ना-
वल्यलंकारः ॥ ७४ ॥
 

 
-
 
१ 'कुम्भावेभौ'.