This page has been fully proofread twice.

यथावा --
 
लीलाञ्ब्जानां नयनयुगलद्राघिमा दत्तपत्रः
कुम्भा[^१]वेतौ कुशपरिकरः पूर्वपक्षीचकार ।
भ्रूविभ्रान्तिर्मदनधनुषो विभ्रमानन्ववादी-
द्वक्त्रज्योत्स्ना शशधररुचं दूषयामास यस्याः ॥
 
अत्र पत्रदानपूर्वपक्षोपन्यासानुवाददूषणोद्भावनानि बुधजनप्रसिद्धक्रमेण न्यस्तानि । प्रसिद्धसहपाठानां प्रसिद्धक्रमाननुसरणेऽध्ययमेवालंकारः । यथावा --
 
'यस्य वह्निमयो हृदयेषु जलमयो लोचनपुटेपुषु मारुतमयः श्वसितेपु क्षमामयोऽङ्गेष्वाकाशमयः स्वान्तेषु पञ्चमहाभूतमयो मूर्त इवादृश्यत निहतप्रतिसामन्तान्तः पुरेषु प्रतापः ।' एवमष्टलोकपालनवग्रहादीनां प्रसिद्धसहपाठानां यथाकथंचित्प्रकृतोपमानोपरञ्जकतादिप्रकारेण निवेशने रखात्नावल्यलंकारः । प्रकृतान्वयं विना क्रमिकतत्तन्नाम्ना श्लेषभङ्ग्या निवेशने क्रमप्रसिद्धरहितानां प्रसिद्धसहपाठानां नवरत्नादीनां निवेशनेऽव्प्ययमेवालंकरः ॥ १४० ॥
 
कामस्तस्य लाञ्छनं मत्स्यस्तद्रूपे । कठिनताया आवासे कूर्मे । रसया पृथिव्या स्वोद्धरणकाल आलिङ्गिते वराहे । प्रह्लादे को रसः प्रीतिर्यस्य तस्मिन्नृसिंहे । क्रमः पादविक्षेपस्तदनुसारेणोपचिते प्रवृद्धे वामने । भूभृतां राज्ञां गौरवनाशके भार्गवे । कोकस्पर्धिनि सीतावियोगातुरतया चक्रवाकशापदे रामे । भोगः फणा तद्भाजि शेषावतारे लभद्रे । जनितमनङ्गमङ्गस्य शरीरस्य विरुद्धं मौनभोगत्यागसमाधिप्रभृति येन तस्मिन् वुबुद्धे । खलीनमश्वस्य वल्गा तदुन्मुखे कल्किनीति ॥ क्रमाननुसरणेऽपीति ॥ तथाच प्रसिद्धसहपाठानामर्थानां न्यसनं रत्नावलिरिति सामान्यलक्षणम् । सक्रमाक्रमत्वे तत्प्रभेदाविति भावः ॥ यस्येति ॥ यस्य प्रतापो निहतानां प्रतिशत्रुभूतानामन्तःपुरेषु पञ्चमहाभूतमयो मूर्त इवादृश्यतेत्यन्वयः । पञ्चमहाभूतमयत्वमेव विशेषणैर्दर्शयति -- वह्निमय इत्यादि ॥ अङ्गेषु
क्षमामयः पृथ्वीमयः पीडाभरसहिष्णुत्वात् । स्वान्तेष्वन्तःकरणेषु आकाशमयः तेषां शून्यताश्रयत्वात् । यथाकथंचिदित्यस्य प्रपञ्चनं प्रकृतोपमानेत्यादि । उपमानं चोपरञ्जकं चोपमानोपरञ्जके तयोर्भावस्तत्ता । प्रकृतं प्रत्युपमानता उपरञ्जकता चेत्यर्थः । उपरञ्जकता चारोप्यमाणता । तदुक्तम् -- 'उपरञ्जकतामेति विषयी रूपकं तदा' इति । तत्रोपमानता रविरिव प्रतिदिवसोपजायमानोदय इत्यादिवत् । उपरञ्जकता तु चतुरास्य इत्याद्युदाहरणे वह्निमय इत्यादिप्रतापवर्णने च स्पष्टेति ॥ प्रकृतान्वयं विनेति ॥ 'मित्र चन्द्रमुखी बाला लोहिताधरपल्लवा' इत्यादाविति भावः । क्रमिकेत्युपलक्षणम् । तदभावेऽपि 'गुरुणा जघनेनैषा
तरुणी मन्दगामिनी' इत्यादावप्ययमलंकार इति बोध्यम् ॥ १४० ॥ इति रत्नावल्यलंकारः ॥ ७४ ॥
 
[‌^१] 'कुम्भावेभौ'.