This page has been fully proofread twice.

अत्र नायिकावर्णनपरेण युग्मविपुलापदेनास्यानुष्टुभो युग्मविपुलानामत्वरूपसूच्यार्थसूचनं मुद्रा । यद्यप्यत्र प्ग्रन्थे वृत्तनाम्नो नास्ति सूचनीयत्वं तथाप्यस्योत्तरार्धस्य लक्ष्यलक्षणयुक्तच्छन्दःशास्त्रमध्यपातित्वेन तस्य सूचनीयत्वमस्तीति तदभिप्रायेण लक्षणं योज्यम् । एवं नवरत्नमालायां तत्तद्रत्ननामनिवेशेन तत्तन्नामकजातिसूचनम् । नक्षत्रमालायामग्न्यादिदेवतानामभिर्नक्षत्रसूचनमित्यादावयमेवालंकारः । एवं नाटकेषु वक्ष्यमाणार्थसूचनेष्वपि ॥ १३९॥
 
------------------
 
रत्नावल्यलंकारः ७४
 
क्र[^१]मिकं प्रकृतार्थानां न्यासं रत्ना[^२]वलीं विदुः ।
चतुरास्यः पतिर्लक्ष्म्याः सर्वज्ञस्त्वं महीपते ॥ १४० ॥
 
अत्र चतुरास्यादिपदैर्वर्णनीयस्य ब्रह्मविष्णुरुद्वारात्मता प्रतीयत इति प्रसिद्धसहपाठानां क्रमेण निवेशनं रत्नावली । यथावा --
 
रत्याप्तप्रियलाञ्छने कठिनतावासे रसालिङ्गिते
प्रह्लादेकरसे क्रमादुपचिते भूभृद्गुरुत्वापहे ।
कोकस्पर्धिनि भोगभाजि जनितानङ्गे खलीनोन्मुखे
भाति श्रीरमणावतारदशकं बाले भवत्याः स्तने ॥
 
[commentary]
 
विपुलं यस्याः सा । अत्र ग्रन्थे अस्मिन्नलंकारग्रन्थे । रत्नमालाशब्देन भगवत्स्तुतिपद्यावली विशेष उच्यते । रत्ननामनिवेशेन प्रकृतार्थपररत्नवाचिपदघटनेन । तत्तन्नामकजातिसूचनं तत्तन्नामप्रवृत्तिनिमित्तरत्नजातिसूचनम् । नक्षत्रमालाशब्दार्थोऽपि पूर्वोक्त एव ।
अग्न्यादिदिदेवतानामभिर्नक्षत्राणां तद्दैवत्यानां सूचनं बोध्यम् ॥ वक्ष्यमाणेति ॥ यथा अनर्घराघवे 'यान्ति न्यायप्रवृत्तस्य तिर्यञ्चोऽपि सहायताम् । अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चति ॥' इति सूत्रधारवचनेन वक्ष्यमाणरामरावणवृत्तान्तसूचन मिति वोबोध्यम् ॥ १३९ ॥ इति मुद्रालंकारः ॥ ७३ ॥
 
क्रमिकमिति ॥ प्रकृतार्थानां क्रमिकं प्रसिद्धक्रमानुसारि न्यसनं प्रतिपादनं रत्नावलिरलंकारः । प्रकृतत्वं च यथाकथंचित्प्रकृतसंबन्धवत्त्वं बोध्यम् ॥ चतुरेति ॥ चतुरमास्यं यस्य सः चतुर्मुखश्च ॥ रत्याप्तेति ॥ हे बाले, भवत्याः स्तने श्रीरमणस्य विष्णोरवतारदशकं भातीत्यन्वयः । कीदृशे । रतावाप्तं प्राप्तं प्रियस्य लाञ्छनं चिह्नं नखक्षताङ्गरागादिकं येन तथाभूते । कठिनताया आवासे
स्थानभूते । रसेनालिङ्गिते । प्रकृताह्लादे एकरसे तत्परे । क्रमाद्दरामलकादिप-रिमाणलाभेनोपचिते प्रवृद्धे भूभृतां पर्वतानां गुरुत्वमपहन्ति नाशयति तादृशे, ततोऽपि महत्त्वात् चक्रवाकस्पर्धाशीले तत्सदृशत्वात् । भोगः सुखं शरीरं वा तद्भाजि । जनितमदने । खेष्विन्द्रियेषु लीना आसक्ता उन्मुखा यस्मिंस्तादृशे । एतैरेव विशेषणैरवतारदशकरूपतापि स्तनस्य बोध्या । तद्यथा -- रत्या आप्तः प्रियः
 
[‌^१] 'क्रमिका'.
[‌^२] 'रलात्नावली'.