This page has been fully proofread twice.

हरणेषु 'कस्त्वं वानर राम[‌^१]राजभवने लेखार्थसंवाहको यद्वक्त्रं मुहुरीक्षसे न धनिनां ब्रूषे न चाटून्सृषा' इत्यादिषु दोषगुणीकरणस्य गुणदोषीकरणस्य चाभावात् । तत्रान्यगुणदोषाभ्यामन्यत्र गुणदोषयोः प्रतीतेः ॥ विषयैक्येऽपि
 
'इन्दोर्लक्ष्म त्रिपुरजयिनः कण्ठमूलं मुरारि -
दिङ्गानागानां मदजलमपीषीभाञ्जि गण्डस्थलानि ।
अद्याप्युर्वीवलयतिलकश्यामलिम्नानुलिप्ता-
न्याभासन्ते वद धवलितं किं यशोभिस्त्वदीयैः ॥'
 
इत्याधुद्युदाहरणेषु लेशास्पर्शनात् । तत्र हीन्दुलक्ष्मादीनां धवलीकरणाभावदोष एव गुणत्वेन न पर्यवस्थति किन्तु परिसंख्यारूपेण ततोऽन्यत्सर्वं धवलितमित्यन्यो गुणः प्रतीयते । क्वचिद्व्याजस्तुत्युदाहरणे गुणदोषीकरणसत्त्वेऽपि स्तुतेर्विषयान्तरमपि दृश्यते । यथा --
 
सर्वदा सर्वदोऽसीति मिथ्या संस्तूयसे बुधैः ।
नारयो लेभिरे पृष्ठं न वक्षः परयोषितः ॥
 
अत्रहि वाच्यया निन्दया परिसंख्यारूपेण ततोऽन्यत्सर्वमर्थिनामभिमतं दीनारादि दीयते इति स्तुत्यन्तरमपि प्रतीयते । एवंच येपूषूदाहरणेषु 'कस्ते शौर्यमदो योद्धु'मित्यादिपुषु गुणदोषादिषु गुणदोषीकरणादिकमेव व्याजस्तुतिरूपतयावतिष्ठते, तत्र लेशव्याजस्तुत्योः संकरोऽस्तु । इत्थमेव हि व्याजस्तुल्त्यप्रस्तुतप्रशंसयोरपि प्राक्संकरो वर्णितः ॥ १३८ ॥
 
---------------
 
मुद्रालंकारः ७३
 
सूच्यार्थसूचनं मुद्रा प्रकृतार्थपरैः पदैः ।
नितम्बगुर्वी तरुणी दृग्युग्मविपुला च सा ॥ १३९ ॥
 
[commentary]
 
भिन्नविषयेति ॥ अन्यनिन्दयान्यस्य स्तुतिरन्यस्तुत्यान्यनिन्देत्येवमादिरूपेत्यर्थः । ननु तथाप्येकविषया व्याजस्तुतिर्न लेशाद्भिद्येतेत्याशङ्ख्क्याह -- विषयैक्येऽपीति ॥
लेशास्पर्शनादित्यग्रेतनेनान्वयः ॥ इन्दोरिति ॥ हे उर्वीवलयतिलकरूप राजन्, त्वदीयैर्यशोभिः किं धवलितं तद्वद । यतोऽद्यापि इन्दुलक्ष्मादीनि श्यामलिम्ना श्यामवर्णेनानुलिप्तान्याभासन्ते इत्यन्वयः । लक्ष्म लाञ्छनम् । दिङ्कानागानां दिग्गजानां मदजलमेव मपीषी तद्भाञ्जि तद्युक्तानि ॥ परिसंख्येति ॥ एतान्येव श्यामानीत्येवंरूपेत्यर्थः । विषयान्तरं दोषीकृताद्भिन्नं गुणरूपमालम्बनम् ॥ सर्वदेति ॥ अरयः पृष्ठमर्थात्तव न लेभिरे न प्राप्तवन्तः पलायनाभावात् । दीनारः परिमाणविशेषपरिच्छिन्ना सुवर्णमुद्रा । एवंच लेशव्याजस्तुत्योरसंकीर्णविषयसत्त्वे च गुणदोषीकरणादिकमिति । आदिपदेन दोषगुणीकरणसम्भवः । येष्वित्युपत्क्रमात्तत्रेति पाठो
युक्ततरः । अत्रेत्यपि युक्त एव । इदमोऽपि यच्छब्दार्थपरामर्शकत्वात् ॥१३८ इति लेशालंकारः ॥ ७२ ॥
 
सूच्यार्थेति ॥ सूचनीयस्यार्थस्येत्यर्थः । मुद्रेति लक्ष्यनिर्देशः । दृग्युग्मं
 
[‌^१] 'रामचन्द्रभवने'.