2023-04-09 15:19:22 by Bharadwajraki
This page has been fully proofread once and needs a second look.
त्वस्य गुणस्य पञ्जरबन्धहेतुतया दोषत्वं कल्पितम् । न चात्र व्याजस्तुतिराशङ्कनीया । नाह्यत्र विहगान्तराणां स्तुतिव्याजेन निन्दायां शुकस्य निन्दाव्याजेन स्तुतौ च तात्पर्यम् । किन्तु पुत्रदर्शनोत्कण्ठितस्य दोषगुणयोर्गुणदोषत्वाभिमान एवात्र श्लोके निबद्धः । यथावा --
सन्तः सच्चरितोदयव्यसनिनः प्रादुर्भवद्यन्त्रणा:
सर्वत्रैव जनापवादचकिता जीवन्ति दुःखं सदा ।
अव्युत्पन्नमतिः कृतेन न सता नैवासता व्याकुलो
युक्तायुक्तविवेकशून्यहृदयो धन्यो जनः प्राकृतः ॥
दण्डी त्वत्रोदाजहार --
'युवैष गुणवान्राजा योग्यस्ते पतिरूर्जितः ।
रणोत्सवे मनः सक्तं यस्य कामोत्सवादपि ॥
चपलो निर्दयश्चासौ जनः किं तेन मे सखि ।
आगः प्रमार्जनायैव चाटवो येन शिक्षिताः ॥'
अत्राद्यश्लोके राज्ञो वीर्योत्कर्षस्तुतिः । कन्याया निरन्तरसंभोगनिविव[^१]र्तिषया दोषत्वेन प्रतिभासतामित्यभिप्रेत्य विदग्धया सख्या राजप्रकोपपरिजिहीर्षया स एव दोषो गुणत्वेन वर्णितः । उत्तरश्लोके सखीभिरुपदिष्टं मानं कर्तुमशक्तयापि तद्ग्रतो मानपरिग्रहानुगुण्यं प्रतिज्ञाय तदनिर्वाहमाशङ्कमानया सखीनामुपहासं परिजिहीर्षन्त्या नायिकया नायकस्य चाटुकारितागुण
एव दोषत्वेन वर्णितः । नचाद्यश्लोके स्तुतिर्निन्दापर्यवसायिनी द्वितीयश्लोके निन्दा स्तुतिपर्यवसायिनीति व्याजस्तुतिराशङ्कनीया । राजप्रकोपादिपरिहारार्थमिह निन्दास्तुत्योरन्याविदिततया लेशत एवोद्घाटनेन ततो विशेषादिति । वस्तुतस्त्विह व्याजस्तुतिसद्भावेऽपि न दोषः । नह्येतावता लेशमात्रस्य व्याजस्तुत्यन्तर्भाव: प्रसज्यते । तदसंकीर्णयोरपि लेशोदाहरणयोदर्शितत्वात् । नापि व्याजस्तुतिमात्रस्य लेशान्तर्भाव: प्रसज्यते । भिन्नविषयव्याजस्तुत्युदा-
[commentary]
निन्दाव्याजेन स्तुतौ चेयन्वयः ॥ सन्त इति ॥ सच्चरितस्योदयो वृद्धिस्तद्व्यस
निनस्तत्पराः । प्रादुर्भवद्यन्त्रणं खेच्छाचरणनिरोधो येषां ते । सर्वत्रैव विषये ।
दुःखमिति क्रियाविशेषणम् । अव्युत्पन्नमतिरनिपुणमतिः । सता समीचीनेन ।
कृतेनाचरणेन । प्राकृतो नीचः ॥ युवैष इति वरार्थिनीं कन्यकां प्रति सखीव-
चनम् ॥ चपल इत्यादि च नायिकायाः सखीं प्रति । उत्सेक इति पाठेऽप्युत्कर्ष
एवार्थः । कन्याया दोषत्वेन भासतामित्यन्वयः । निवर्तितुमिच्छा निविवर्तिषा
तद्रूपदोषत्वेनेत्यर्थः । निर्विवित्सोरिति पाठे राज्ञो विशेषणम् । कुतस्तर्हि गुणत्वेन
वर्णनं तत्राह – -- राजप्रकोपेति ॥ अन्येनाविदितं यथा स्यादिति क्रियाविशेषणम् ॥
लेशत एवेति ॥ तदुक्तं दण्डिनैव –-- 'लेशमेके विदुर्निन्दां स्तुतिं वा लेशतः
कृताम्' इति । लेशमात्रस्येति कृत्स्नार्थकम् । उदाहरणयोरखिलेष्वित्यायोः ॥
-
।
[^१ ]'निर्विवित्सोर्दोपषत्वेन'.