2023-04-09 15:09:17 by Bharadwajraki
This page has been fully proofread once and needs a second look.
१४५
सन्तः सच्चरितोदयव्यसनिनः प्रादुर्भवद्यन्त्रणा:
सर्वत्रैव जनापवादचकिता जीवन्ति दुःखं सदा ।
अव्युत्पन्नमतिः कृतेन न सता नैवासता व्याकुलो
युक्तायुक्तविवेकशून्यहृदयो धन्यो जनः प्राकृतः ॥
दण्डी त्वत्रोदाजहार -
'युवै
रणोत्सवे मनः सक्तं यस्य कामोत्सवादपि ॥
चपलो निर्दयश्चासौ जनः किं तेन मे सखि ।
आगः प्रमार्जनायैव चाटवो येन शिक्षिताः ॥'
अत्राद्यश्लोके राज्ञो वीर्योत्कर्षस्तुतिः । कन्याया निरन्तरसंभोगनिवि
प
एव दो
[commentary]
निन्दाव्याजेन स्तुतौ चेयन्वयः ॥ सन्त इति ॥ सच्चरितस्योदयो वृद्धिस्तव्यस
निनस्तत्पराः । प्रादुर्भवद्यन्त्रणं खेच्छाचरणनिरोधो येषां ते । सर्वत्रैव विषये ।
दुःखमिति क्रियाविशेषणम् । अव्युत्पन्नमतिरनिपुणमतिः । सता समीचीनेन ।
कृतेनाचरणेन । प्राकृतो नीचः ॥ युवैष इति वरार्थिनीं कन्यकां प्रति सखीव-
चनम् ॥ चपल इत्यादि च नायिकायाः सखीं प्रति । उत्सेक इति पाठेऽप्युत्कर्ष
एवार्थः । कन्याया दोषत्वेन भासतामित्यन्वयः । निवर्तितुमिच्छा निविवर्तिषा
तद्रूपदोषत्वेनेत्यर्थः । निर्विवित्सोरिति पाठे राज्ञो विशेषणम् । कुतस्तर्हि गुणत्वेन
वर्णनं तत्राह – राजप्रकोपेति ॥ अन्येनाविदितं यथा स्यादिति क्रियाविशेषणम् ॥
लेशत एवेति ॥ तदुक्तं दण्डिनैव – 'लेशमेके विदुर्निन्दां स्तुतिं वा लेशतः
कृताम्' इति । लेशमात्रस्येति कृत्स्नार्थकम् । उदाहरणयोरखिलेष्वित्यायोः ॥
-
।
।
१ 'निर्विवित्सोर्दोपत्वेन'.