This page has been fully proofread twice.

अनुज्ञालंकारः ७१
 
दोस्याभ्यर्थनानुज्ञा तत्रैव गुणदर्शनात् ।
विपदः सन्तु नः शश्वद्यासु संकीर्त्यते हरिः ॥ १३७॥
 
यथावा --
 
मय्येव जीर्णतां यातु य[^१]त्त्वयोपकृतं हरे ।
नरः प्रत्युपकारार्थी विपत्तिमभिकाङ्क्षति ॥
 
इयं हनुमन्तं प्रति राघवस्योक्तिः । अत्र प्रत्युपकाराभावो दोस्तदभ्युपगमे हेतुर्गुणो विपत्त्याकाङ्क्षाया अप्रसक्तिः । सा च व्यतिरेकमुखप्रवृत्तेन सामान्येन विशेषसमर्थनरूपेणार्थान्तरन्यासेन दर्शिता । यथावा --
 
व्र[^२]जेम भवदन्तिकं प्रकृतिमेत्य पैशाचिकीं
किमित्यमर[^३]संपदः प्रमथनाथ नाथामहे ।
भवद्भवनदेहलीविकटतुण्डदण्डाहति-
त्रुटन्मुकुटकोटिभिर्मघवदादिभिर्भूयते ॥ १३७ ॥
 
---------------
 
लेशालंकारः ७२
 
लेशः स्याद्दोषगुणयोर्गुणदोषत्वकल्पनम् ।
अखिलेषु विहङ्गेषु हन्त स्वच्छन्दचारिषु ॥
शुक पञ्जरबन्धस्ते मधुराणां गिरां फलम् ॥ १३८ ।
 
दोषस्य गुणत्वकल्पनं गुणस्य दोपत्वकल्पनं च लेशः । उदाहरणं राज्ञोऽभिमते विदुषि पुत्रे चिरं राजधान्यां प्रवसति तद्दर्शनोत्कण्ठितस्य गृहे स्थितस्य पितुर्वचनमप्रस्तुतप्रशंसारूपम् । तत्र प्रथमार्धे इतरविहगानामवक्तृत्वदोषस्य स्वच्छन्दचरणानुकूलतया गुणत्वं कल्पितम् । द्वितीयार्धे मधुरभाषि-
 
[commentary]
 
दोषस्येति ॥ अभ्यर्थना इच्छा । तत्रैव दोष एव । अनुज्ञेति लक्ष्यनिर्देशः । शश्वन्निरन्तरं संकीर्त्यत इत्यनेनान्वयि ॥ मय्येवेति ॥ जीर्णतां प्रत्युपकाराक्षमताम् । हरिशव्दो वानरार्थः ॥व्यतिरेकमुखेति ॥ वैधर्म्यमुखेत्यर्थः । अस्य चार्थान्तरन्यासेनेत्यनेनान्वयः ॥ दर्शितेति ॥ वैधर्म्यविपर्यये प्रत्युपकारानभिलाषी विपत्तिं नाकाङ्क्षतीत्यर्थपर्यवसानादिति भावः ॥ व्रजेमेति ॥ हे प्रमथनाथ हर, पैशाचिकीं पिशाचसम्बधिनीं प्रकृतिं पिशाचतामेत्य प्राप्य भवतोऽन्तिकं समीपदेशं भजेम । अमरसंपत्तीः किमिति प्रार्थयामहे । यतो मघवदादिभिरिन्द्रप्रमुखैरपि भवद्भवनदेहलीषु विकटतुण्डस्य वक्रतुण्डस्य दण्डाघातैः स्फुटन्मुकुटाग्रैर्भूयत इत्यर्थः ॥ १३७ ॥ इत्यनुज्ञाप्रकरणम् ॥ ७१ ॥
 
लेश इति लक्ष्य निर्देशः । प्रवसतीति सतिसप्तम्यन्तम् । शुकस्य निन्दायाः
 
[^१] 'यत्त्वयैव कृतं'.
[^२] अस्य पद्यस्य क्वचित्पूर्वार्थोंधोत्तरार्धयोर्वैलोम्येन पाठः.
[^३] संपदं'
 
.