This page has been fully proofread once and needs a second look.

१४४
 
यथावा-
कुवलयानन्दः ।
 
अनुज्ञालंकारः ७१
 

 
दोपस्याभ्यर्थनानुज्ञा तत्रैव गुणदर्शनात् ।

विपदः सन्तु नः शश्वद्यासु संकीर्त्यते हरिः ॥ १३७॥
 
[ लेशालंकारः ७२
 
Commencing
 

 
यथावा --
 
मय्येव जीर्णतां यातु यत्त्वे[^१]त्त्वयोपकृतं हरे ।
 

नरः प्रत्युपकारार्थी विपत्तिमभिकाङ्क्षति ॥
 

 
इयं हनुमन्तं प्रति राघवस्योक्तिः । अत्र प्रत्युपकाराभावो दोपस्तदभ्युपग-
मे हेतुर्गुणो विपत्त्याकाङ्क्षाया अप्रसक्तिः । सा च व्यतिरेकमुखप्रवृत्तेन सामा-
न्येन विशेषसमर्थन रूपेणार्थान्तरन्यासेन दर्शिता । यथावा -
ब्र
-
 
व्र[^२]
जेम भवदन्तिकं प्रकृतिमेत्य पैशाचिकीं

किमित्यमर[^३]संपदः प्रमथनाथ नाथामहे ।

भवद्भवनदेहली विकटतुण्डदण्डाहति-

त्रुटन्मुकुटकोटिभिर्मघवदादिभिर्भूयते ॥ १३७ ॥
 

 
लेशालंकारः ७२
 

 
लेशः स्याद्दोगुणयोर्गुणदोषत्वकल्पनम् ।

अखिलेषु विहङ्गेषु हन्त स्वच्छन्दचारिषु ॥

शुक पञ्जरबन्धस्ते मधुराणां गिरां फलम् ॥ १३८ ।
 

 
दोषस्य गुणत्वकल्पनं गुणस्य दोपत्वकल्पनं च लेशः । उदाहरणं राज्ञो-
s
भिमते विदुषि पुत्रे चिरं राजधान्यां प्रवसति तद्दर्शनोत्कण्ठितस्य गृहे स्थि
तस्य पितुर्वचनम प्रस्तुतप्रशंसारूपम् । तत्र प्रथमार्धे इतरविहगानामवक्तृत्व-
दोस्य स्वच्छन्दचरणानुकूलतया गुणत्वं कल्पितम् । द्वितीयार्धे मधुरभाषि-

 
[commentary]
 
दोषस्येति ॥ अभ्यर्थना इच्छा । तत्रैव दो एव । अनुज्ञेति लक्ष्यनिर्देशः ।
श्वन्निरन्तरं संकीर्त्यत इत्यनेनान्वयि ॥ मय्येवेति ॥ जीर्णतां प्रत्युपकाराक्षम-
ताम् । हरिशव्दो वानरार्थः ॥ व्यतिरेकमुखेति ॥ वैधर्म्यमुखेत्यर्थः । अस्य
चार्थान्तरन्यासेनेत्यनेनान्वयः ॥ दर्शितेति ॥ वैधर्म्यविपर्यये प्रत्युपकारानभि-
लाषी विपत्तिं नाकाङ्क्षतीत्यर्थपर्यवसानादिति भावः ॥ व्रजेमेति ॥ हे प्रमथनाथ
पैशाचिकीं पिशाचसंवसम्बधिनीं प्रकृतिं पिशाचतामेय प्राप्य भवतोऽन्तिकं
समीपदेशं भजेम । अमरसंपत्तीः किमिति प्रार्थयामहे । यतो मघवदादिभिरिन्द्र-
प्रमुखैरपि भवद्भवनदेहलीषु विकटतुण्डस्य वक्रतुण्डस्य दण्डाघातैः स्फुटन्मुकुटा-
ग्रैर्भूयत इत्यर्थः ॥ १३७ ॥ इत्यनुज्ञाप्रकरणम् ॥ ७१ ॥
 
हर,
 

 
लेश इति लक्ष्य निर्देशः । प्रवसतीति सतिसप्तम्यन्तम् । शुकस्य निन्दायाः
 

 
[^
]'यत्त्वयैव कृतं'.
[^
]अस्य पद्यस्य क्वचित्पूर्वार्थोंत्तरार्धयोर्वैलोम्येन पाठः.
[^
']संपदं'.