2023-02-17 12:59:04 by ambuda-bot
This page has not been fully proofread.
अवज्ञालंकारः ७० ] अलंकारचन्द्रिकासहितः ।
१४३
अत्र वानरस्य चापलदोषेण रत्नस्य चूर्णनाभावो गुणत्वेन वर्णितः । अत्र
प्रथमचतुर्थयोरुल्लासोऽन्वर्थः । मध्यमयोश्छत्रिन्यायेन लाक्षणिकः १३३-१३५
अवज्ञालंकारः ७०
ताभ्यां तौ यदि न स्यातामवज्ञालंकृतिस्तु सा ।
स्वल्पमेवाम्बु लभते प्रस्थं प्राप्यापि सागरम् ॥
मीलन्ति यदि पद्मानि का हानिरमृतद्युतेः ॥ १३६ ॥
ताभ्यां गुणदोषाभ्यां । तौ गुणदोपौ । अत्र कस्यचिद्गुणेनान्यस्य गुणालाभे
द्वितीयार्धमुदाहरणम् । दोषेण दोपस्याप्राप्तौ तृतीयार्धम् । यथा -
मदुक्तिश्चेदन्तर्मदयति सुधीभूय सुधियः
किमस्या नाम स्यादलसपुरुपानादरभरैः ।
यथा यूनस्तद्वत्परमरमणीयापि रमणी
कुमाराणामन्तःकरणहरणं नैव कुरुते ॥
त्वं चेत्संचरसे वृपेण लघुता का नाम दिग्दन्तिनां
व्यालैः कङ्कणभूपणानि कुरुपे हानिर्न हेम्नामपि ।
मूर्धन्यं कुरुपे जलांशुमयश: किंनाम लोकत्रयी-
दीपस्याम्बुजबान्धवस्य जगतामीशोऽसि किं ब्रूमहे ॥
कवितारमणीगुणाभ्यामरसबालकयोर्हदयोल्लासरूपगुणाभावो व
र्णितः । द्वितीये परमेश्वरानङ्गीकरणदोषेण दिग्गजादीनां लघुतादिदोषाभावो
वर्णितः ॥ १३६ ॥
अत्राद्ये
कर्त्रा । तत्र तस्मिन्सति । विचारणव्यसनिना विचारणतत्परेण । अश्मना पाषा-
णेन । प्रथमचतुर्थयोर्गुणेन गुणदोषेण वा गुण इति भेदयोः । उल्लास: उल्लासश-
ब्दः ॥ अन्वर्थ इति ॥ उत्कृष्टोल्लासः सुखं यत्रेत्यर्थानुगत इत्यर्थः । छत्रि-
न्यायेनेति ॥ केषुचिच्छत्रसंवन्धाच्छत्र्यच्छत्रिसमुदाये छत्रिणो यान्तीतिवदि-
त्यर्थः ॥ १३३ ॥ १३४ ॥ १३५ ॥ इत्युल्लासालंकारः ॥ ६९ ॥
.
प्रस्थं प्रस्थपरिमाणपात्रम् ॥ मदुक्तिरिति ॥ ममोक्तिः कविता । सुधियो-
ऽन्तःकरणं सुधीभूयामृतीभूय चेन्मदयति तोषयति तदास्या मदुक्तेः अरसानां
नीरसानां पुरुषाणामनादरसमूहै: किं नाम स्यात् । न किंचिदित्यर्थः । क्वचिदल-
सेति पाठः । परमरमणीयापि । केव । रमणी स्त्री यूनस्तरुणस्य यथान्तःकरणहरणं
कुरुते तद्वत्कुमाराणां बालानामित्यन्वयः ॥ त्वं चेदिति ॥ शिवं प्रति कस्यापि
कवेरुक्तिः । जलांशुं चन्द्रं पक्षे जडांशुम् । अम्बुजबान्धवः सूर्यः । उल्लासरूप-
गुणाभाव उल्लासरूपस्य गुणस्याभावः ॥ १३६ ॥ इत्यवज्ञाप्रकरणम् ॥ ७० ॥
१ 'पान्थं प्राप्यापि'.