This page has been fully proofread once and needs a second look.

अवज्ञालंकारः ७० ] अलंकारचन्द्रिकासहितः ।
 
१४३
 
अत्र वानरस्य चापलदोषेण रत्नस्य चूर्णनाभावो गुणत्वेन वर्णितः । अत्र
प्रथमचतुर्थयोरुल्लासोऽन्वर्थः । मध्यमयोश्छत्रिन्यायेन लाक्षणिकः १३३-१३५
 

 
अवज्ञालंकारः ७०
 

 
ताभ्यां तौ यदि न स्यातामवज्ञालंकृतिस्तु सा ।

स्वल्पमेवाम्बु लभते प्र[^१]स्थं प्राप्यापि सागरम् ॥

मीलन्ति यदि पद्मानि का हानिरमृतद्युतेः ॥ १३६ ॥
 

 
ताभ्यां गुणदोषाभ्यां । तौ गुणदोपौषौ । अत्र कस्यचिद्गुणेनान्यस्य गुणालाभे
द्वितीयार्धमुदाहरणम् । दोषेण दोस्याप्राप्तौ तृतीयार्धम् । यथा -
-
 
मदुक्तिश्चेदन्तर्मदयति सुधीभूय सुधियः

किमस्या नाम स्यादलसपुरुपाषानादरभरैः ।

यथा यूनस्तद्वत्परमरमणीयापि रमणी

कुमाराणामन्तःकरणहरणं नैव कुरुते ॥

 
त्वं चेत्संचरसे वृपेषेण लघुता का नाम दिग्दन्तिनां

व्यालैः कङ्कणभूणानि कुरुपेषे हानिर्न हेम्नामपि ।

मूर्धन्यं कुरुपेषे जलांशुमयश: किंनाम लोकत्रयी-

दीपस्याम्बुजबान्धवस्य जगतामीशोऽसि किं ब्रूमहे ॥

 
अत्राद्ये
कवितारमणीगुणाभ्यामरसबालकयोर्हृदयोल्लासरूपगुणाभावो व
र्णितः । द्वितीये परमेश्वरानङ्गीकरणदोषेण दिग्गजादीनां लघुतादिदोषाभावो
वर्णितः ॥ १३६ ॥
 
अत्राद्ये
 

 
[Commentary]
 
कर्त्रा । तत्र तस्मिन्सति । विचारणव्यसनिना विचारणतत्परेण । अश्मना पाषा-
णेन प्रथमचतुर्थयोर्गुणेन गुणदोषेण वा गुण इति भेदयोः । उल्लास: उल्लासश-
ब्दः ॥ अन्वर्थ इति ॥ उत्कृष्टोल्लासः सुखं यत्रेत्यर्थानुगत इत्यर्थः । छत्रि-
न्यायेनेति ॥ केषुचिच्छत्रसंन्धाच्छत्र्यच्छत्रिसमुदाये छत्रिणो यान्तीतिवदि-
त्यर्थः ॥ १३३ ॥ १३४ ॥ १३५ ॥ इत्युल्लासालंकारः ॥ ६९ ॥
 
.
 

 
प्रस्थं प्रस्थपरिमाणपात्रम् ॥ मदुक्तिरिति ॥ ममोक्तिः कविता । सुधियो-
ऽन्तःकरणं सुधीभूयामृतीभूय चेन्मदयति तोषयति तदास्या मदुक्तेः अरसानां
नीरसानां पुरुषाणामनादरसमूहै: किं नाम स्यात् । न किंचिदित्यर्थः । क्वचिदल-
सेति पाठः । परमरमणीयापि । केव । रमणी स्त्री यूनस्तरुणस्य यथान्तःकरणहरणं
कुरुते तद्वत्कुमाराणां बालानामित्यन्वयः ॥ त्वं चेदिति ॥ शिवं प्रति कस्यापि
कवेरुक्तिः । जलांशुं चन्द्रं पक्षे जडांशुम् । अम्बुजबान्धवः सूर्यः । उल्लासरूप-
गुणाभाव उल्लासरूपस्य गुणस्याभावः ॥ १३६ ॥ इत्यवज्ञाप्रकरणम् ॥ ७० ॥

 
[^
] 'पान्थं प्राप्यापि'.