2023-02-17 12:59:04 by ambuda-bot
This page has not been fully proofread.
१४२
कुवलयानन्दः । [उल्लासालंकारः ६९
यत्र कस्यचिद्गुणेनान्यस्य गुणो दोषेण दोपो गुणेन दोषो दोषेण गुणो वा
वर्ण्यते स उल्लास: । द्वितीयार्धमाद्यस्योदाहरणम् । तत्र पतिव्रतामहिमगुणेन
तदीयस्त्रानतो गङ्गायाः पावनत्वगुणो वर्णितः । द्वितीयश्लोके द्वितीयस्योदा-
हरणम् । तत्र राज्ञो धाटीपु वने पलायमानानामरातियोपितां पादयोर्धाव-
नपरिपन्थिमार्दवदोपेण तयोः काठिन्यमा व्यर्थ कुचयोस्तत्सृष्टवतो धातु-
निन्द्यत्वदोषो वर्णितः । तृतीयश्लोकस्तृतीयचतुर्थयोरुदाहरणम् । तत्र सज्जन-
महिमगुणेन धनस्य, तदनाश्रयणं दोषत्वेन राज्ञः, क्रौर्यदोषेण तत्सेवकानां वधं
विना विनिर्गमनं गुणत्वेन वर्णितम् ॥
अनेनैव क्रमेणोदाहरणान्तराणि ।
यदयं रथसंक्षोभादंसेनांसो निपीडितः ।
एक: कृती मदङ्गेषु शेषमङ्गं भुवो भरः ॥
अत्र नायिकासौन्दर्यगुणेन तदंसनिपीडितस्य स्वांसस्य कृतित्वगुणो
वर्णितः ॥
लोकानन्दन चन्दनद्रुम सखे नास्मिन्वने स्थीयतां
दुवंशैः परुपैरसारहृदयैराक्रान्तमेतद्वनम् ।
ते ह्यन्योन्य निघर्पजात दहनज्वालावली संकुला
न स्वान्येव कुलानि केवलमहो सर्वं दहेयुर्वनम् ॥
अत्र वेणूनां परस्परसंघर्षणसंजातदहन संकुलत्वदोषेण वननाशरूपदोषो
वर्णितः ।
दानार्थिनो मधुकरा यदि कर्णतालै-
दूरीकृताः करिवरेण मदान्धबुद्ध्या ।
तस्यैव गण्डयुगमण्डनहानिरेपा
भृङ्गाः पुनर्विकचपद्मवने चरन्ति ॥
अत्र भ्रमराणामलंकरणत्वगुणेन गजस्य तत्प्रतिक्षेपो दोपत्वेन वर्णितः ।
आघातं परिचुम्बितं परिमुहुर्लीढं पुनश्चर्वितं
त्यक्तं वा भुवि नीरसेन मनसा तत्र व्यथां मा कृथाः ।
हे सद्गल तवैतदेव कुशलं यद्वानरेणादरा-
दन्तःसारविलोकनव्यसनिना चूर्णीकृतं नाश्मना ॥
भूपालसेवकानामयमेव लाभो यदि वधो न भवतीत्यन्वयः ॥ यदयमिति ॥
रथस्य संक्षोभाञ्चलनाद्यदयमंसोंऽसेनार्थाद्दयिताया निपीडितः संघृष्टो ममाङ्गेषु मध्ये
स एवैकः कृती कुशलः । अवशिष्टमङ्गं भूमेभीरमित्यर्थः । दुर्वशैर्दुष्टवेणुभिर्दुष्कुलैश्चे-
त्यादिः श्लेषो वोध्यः । वननाशरूपो वनसंबन्धिनाशरूपः । वनस्येति युक्ततरः
पाठः । तत्प्रतिक्षेपो भ्रमरनिरासो गजस्य दोषत्वेनेति संबन्धः ॥ आघ्रातमि-
ति ॥ मुहुः परिलीढमाखादितम् । नीरसेन मनसा करणभूतेन । वानरेण
१ 'मिदं सर्व'.