This page has been fully proofread once and needs a second look.

अत्र पुष्पग्रहणोपायभूतारोहणसिद्ध्यर्थात्पदनिधानात्तत्रैव पुष्पग्रहणलाभः ॥ १३१ ॥
 
विषादनालंकारः ६८
 
इष्यमाणविरुद्धार्थसंप्राप्ति[^१]स्तु विषादनम् ।
दीप[^२]मुद्योजयेद्यावन्निर्वाणस्ता[^३]वदेव सः ॥ १३२ ॥
 
यथावा --
 
रात्रिर्गमिष्यति भविष्यति सुप्रभातं
भास्वानुदेष्यति हसिष्यति पङ्कजश्रीः ।
इत्थं विचिन्तयति कोशगते द्विरेफे
हा हन्त हन्त नलिनीं गज उज्जहार ॥ १३२ ॥
 
उल्लासालंकारः ६९ ] अलंकारचन्द्रिकासहितः ।
 
१४१
 
अन्न पुष्पग्रहणोपायभूतारोहण सिद्ध्यर्थात् पदनिधानात्तत्रैव पुष्पग्रहण-
लाभः ॥ १३१ ॥
 
यथावा-
-
 
विपादनालंकारः ६८
इष्यमाणविरुद्धार्थसंप्राप्तिस्तु विषादनम् ।
दीपेमुद्योजयेद्यावन्निर्वाणस्ताँवदेव सः ॥ १३२ ॥
 
रात्रिर्गमिष्यति भविष्यति सुप्रभातं
 
भास्वानुदेष्यति हसिष्यति पङ्कजश्रीः ।
इत्थं विचिन्तयति कोशगते द्विरेफे
 
हा हन्त हन्त नलिनीं गज उज्जहार ॥ १३२ ॥
 
उल्लासालंकारः ६९
 

 
एकस्य गुणदोषाभ्यामुल्लासोऽन्यस्य तौ यदि ।

अपि मां पावयेत्साध्वी स्नात्वेतीच्छति जाह्नवी ॥ १३३

काठिन्यं कुच[^४]योः स्रष्टुं वाञ्छन्त्यः पादपद्मयोः ।

निन्दन्ति च[^५] विधातारं त्वद्घाधाटीष्वरियोषितः ॥ १३४ ॥

तदभाग्यं धनस्यैव यन्नाश्रयति सज्जनम् ।

लाभोऽयमेव भूपालसेवकानां न चेद्वधः ॥ १३५ ॥
 

 
[commentary]
 
इति प्रकारत्रयसाधारणं सामान्यलक्षणं वोबोध्यम् ॥ १३१ ॥ इति प्रहर्षणालंकार-
प्रकरणम् ॥ ६७ ॥
 

 
इष्यमाणविरोधो योऽर्थस्तत्संप्राप्तिर्विषादनमलंकारः । उद्योजयेदुद्दीप्तं कुर्यात् ।
उद्योजयेद्यावदित्यनेन तदिच्छामात्रं नतु तत्करणमिति विषमाद्भेदः । एवमग्रि
मोदाहरणेऽपीच्छामात्रं न लित्विष्टोत्पत्त्यनुकूलाचरणमिति ॥ १३२ ॥ इति विषादन-
प्रकरणम् ॥ ६८ ॥
 
-
 

 
एकस्येति ॥ एकस्य गुणदोषाभ्यामन्यस्य तौ गुणदोषौ यदि भवतस्तदोल्ला-
सालंकारः ॥ अपीति ॥ अपिः संभावनायाम् । साध्वी पतिव्रता स्नात्वा मां
पावयेदिति जाह्नवी इच्छतीत्यन्वयः । तव धाटीषु युद्धयात्रासु कुचयोः सृष्टं का-
ठिन्यं पादपद्मयोर्वाञ्छन्त्योऽरियोषितो विधातारं निन्दन्तीत्यन्वयः । स्रष्टुमिति
पाठे कुचयोः काठिन्यं पादयोः स्रष्टुमिच्छन्त्य इत्यन्वयः ॥ लाभोऽयमिति ॥
 

 
[^१]
'प्राप्तिश्च'.
[^
] 'मुद्दीपयेत्'.
[^
] ' तावन्निर्वाण एव स : सः'.
[^
] 'कुचयोर्दृद्रष्टु'.

[^
] 'विश्वधातारं'.
 

 
कुव० १४