2023-04-27 05:49:58 by Bharadwajraki
This page has been fully proofread twice.
मेघैर्मेंदुरमम्बरं वनभुवः श्यामास्तमालद्रुमै-
र्नक्तं भीरुरयं त्वमेव तदिमं राधे गृहं प्रापय ।
इत्थं नन्दनिदेशतश्चालितयोः प्रत्यध्वकुञ्जद्रुमं
राधामाधवयोर्जयन्ति यमुनाकूले रहःकेलयः ॥
अत्र राधामाधवयोः परस्परमुत्कण्ठितत्वं प्रसिद्धतरमग्रे च ग्रन्थकारेण निबद्धमित्यत्रोदाहरणे लक्षणानुगतिः ॥ १२९ ॥
वाञ्छितादधिकार्थस्य संसिद्धिश्च प्रहर्षणम् ।
दीपमु[^१]द्योजयेद्यावत्तावदभ्युदितो रविः ॥ १३० ॥
स्पष्टम् । यथावा --
चातकस्त्रिचतुरान्पयःकणान्याचते जलधरं पिपासया ।
सोऽपि पूरयति विश्वमम्भसा हन्त हन्त महतामुदारता ॥ १३० ॥
यत्नादुपायसिद्ध्य[^२]र्थात्साक्षाल्लाभः फलस्य च[^३] ।
निध्यञ्जनौषधीमूलं ख[^४]नता सा[^५]धितो निधिः ॥ १३१ ॥
फलोपायसिद्ध्यर्थाद्यत्नान्मध्ये उपायसिद्धिमनपेक्ष्य साक्षात्फलस्यैव लाभोऽपि प्रहर्षणम् । यथा निध्यञ्जनसिद्ध्यर्थं मूलिकां खनतस्तत्रैव निधेर्लाभः । यथावा--
उच्चित्य प्रथममधःस्थितं मृगाक्षी पुष्पौघं श्रितविटपं ग्रहीतुकामा ।
आरोढुं पदमदधादशोकयष्टावामूलं पुनरपि तेन पुष्पिताभूत् ॥
[commentary]
मेघैरिति ॥ मेदुरं तुन्दिलम् । नक्तं रात्रिरस्तीति शेषः । नन्दनिदेशतो नन्दस्याज्ञावशात् । प्रत्यध्वकुञ्जद्रुममध्व संबन्धिकुञ्जद्रुमं द्रुमं प्रति । ग्रन्थकारेण गीतगोविन्दकृता ॥ १२९ ॥ चातक इति ॥ यत्तु चातकस्य त्रिचतुरकणमात्रार्थितया जलदकर्तृकेणाम्भसा विश्वपूरणेन हर्षाधिक्याभावादयुक्तमुदाहरणमिति तत्तुच्छम् । हेत्वसिद्धेः। नहि क्षुदुपशमाय तत्पर्याप्तान्नमात्रार्थिनस्तदधिकान्नलाभे हर्षाधिक्यं नास्तीति वक्तुं शक्यते ।तदानीमुपयोगाभावेऽपि स्वस्यैव कालान्तरे तदुपयोगसत्त्वात् । नच चातकस्य जलसंग्रहानुपयोगाद्वैषम्यं शङ्कनीयम् । चातकवृत्तान्तस्याप्रस्तुततया तद्व्यङ्ग्ये प्रस्तुतदातृयाचकवृत्तान्ते काव्यस्य पर्यवसानादिति ॥ १३० ॥ तृतीयं प्रभेदमाह -- यत्नादिति ॥ प्रहर्षणमित्यनुवर्तते ॥ निध्यञ्जनेति ॥ निधिदर्शनसाधनं यदञ्जनं तत्साधनौषधिमूलमित्यर्थः । साधितो लब्धः ॥ उच्चित्येति ॥ अधःस्थितं वृक्षस्याधोदेशे स्थितम् । अवस्थितमिति पाठे समीपाशोकयष्टाववस्थितमित्यर्थः । श्रिता आश्रिता विटपाः शाखा येनेति पुष्पौघविशेषणम् । अदधादाहितवती । यष्टिः स्कन्धः । तेन पादाघातेन । पुनरप्यामूलं पुष्पिताभूत् । अर्थादशोकयष्टिः । अत्रच तदसाध्यकयत्नात्तल्लाभ-
[^१] 'दीपमुद्दीपयेद्यावत्'.
[^२] 'सिद्धार्थात्'.
[^३] 'चेत्'.
[^४] 'खलता'.
[^५] 'आसादितो'.
र्नक्तं भीरुरयं त्वमेव तदिमं राधे गृहं प्रापय ।
इत्थं नन्दनिदेशतश्चालितयोः प्रत्यध्वकुञ्जद्रुमं
राधामाधवयोर्जयन्ति यमुनाकूले रहःकेलयः ॥
अत्र राधामाधवयोः परस्परमुत्कण्ठितत्वं प्रसिद्धतरमग्रे च ग्रन्थकारेण निबद्धमित्यत्रोदाहरणे लक्षणानुगतिः ॥ १२९ ॥
वाञ्छितादधिकार्थस्य संसिद्धिश्च प्रहर्षणम् ।
दीपमु[^१]द्योजयेद्यावत्तावदभ्युदितो रविः ॥ १३० ॥
स्पष्टम् । यथावा --
चातकस्त्रिचतुरान्पयःकणान्याचते जलधरं पिपासया ।
सोऽपि पूरयति विश्वमम्भसा हन्त हन्त महतामुदारता ॥ १३० ॥
यत्नादुपायसिद्ध्य[^२]र्थात्साक्षाल्लाभः फलस्य च[^३] ।
निध्यञ्जनौषधीमूलं ख[^४]नता सा[^५]धितो निधिः ॥ १३१ ॥
फलोपायसिद्ध्यर्थाद्यत्नान्मध्ये उपायसिद्धिमनपेक्ष्य साक्षात्फलस्यैव लाभोऽपि प्रहर्षणम् । यथा निध्यञ्जनसिद्ध्यर्थं मूलिकां खनतस्तत्रैव निधेर्लाभः । यथावा--
उच्चित्य प्रथममधःस्थितं मृगाक्षी पुष्पौघं श्रितविटपं ग्रहीतुकामा ।
आरोढुं पदमदधादशोकयष्टावामूलं पुनरपि तेन पुष्पिताभूत् ॥
[commentary]
मेघैरिति ॥ मेदुरं तुन्दिलम् । नक्तं रात्रिरस्तीति शेषः । नन्दनिदेशतो नन्दस्याज्ञावशात् । प्रत्यध्वकुञ्जद्रुममध्व
[^१] 'दीपमुद्दीपयेद्यावत्'.
[^२] 'सिद्धार्थात्'.
[^३] 'चेत्'.
[^४] 'खलता'.
[^५] 'आसादितो'.