This page has been fully proofread once and needs a second look.

कुवलयानन्दः । [ प्रहर्षणालंकारः ६७
मेघैर्मेंदुरमम्बरं वनभुवः श्यामास्तमालद्रुमै -
 

र्नक्तं भीरुरयं त्वमेव तदिमं राधे गृहं प्रापय ।

इत्थं नन्दनिदेशतश्चालितयोः प्रत्यध्वकुञ्जद्रुमं

राधामाधवयोर्जयन्ति यमुनाकूले रहःकेलयः ॥
 

 
अत्र राधामाधवयोः परस्परमुत्कण्ठितत्वं प्रसिद्धतरमग्रे च ग्रन्थकारेण
निबद्धमित्यत्रोदाहरणे लक्षणानुगतिः ॥ १२९ ॥
 

 
वाञ्छितादधिकार्थस्य संसिद्धिश्च प्रहर्णम् ।

दीपमुंद्दमु[^१]द्योजयेद्यावत्तावद्भ्युदितो रविः ॥ १३० ॥
 
१४०
 

 
स्पष्टम् । यथावा -
-
 
चातक स्त्रिचतुरान्पयःकणान्याचते जलधरं पिपासया ।

सोऽपि पूरयति विश्वमम्भसा हन्त हन्त महतामुदारता ॥ १३० ॥
 
3
 
यत्न।

 
यत्ना
दुपायसिद्ध्यैय[^२]र्थात्साक्षाल्लाभः फलस्य च
[^३] ।
निध्यञ्जनौषधीमूलं ख[^४]नता सा[^५]धितो निधिः ॥ १३१ ॥

 
फलोपाय सिद्ध्यर्थाद्यवात्नान्मध्ये उपाय सिद्धि मनपेक्ष्य साक्षात्फलस्यैव लाभो-
ऽपि प्रहर्षणम् । यथा निध्यञ्जनसिद्ध्यर्थं मूलिकां खनतस्तत्रैव निधेर्लाभः 1
 
यथावा-
-
 

 
उच्चित्य प्रथममधःस्थितं मृगाक्षी पुष्पौधंघं श्रितविटपं ग्रहीतुकामा ।

आरोढुं पदमदधादशोकयष्टावामूलं पुनरपि तेन पुष्पिताभूत् ॥
 

 
[commentary]
 
मेघैरिति ॥ मेदुरं तुन्दिलम् । नक्तं रात्रिरस्तीति शेषः । नन्दनिदेशतो नन्द-
स्याज्ञावशात् । प्रत्यध्वकुञ्ज द्रुममध्व संबन्धिकुञ्जद्रुमं द्रुमं प्रति । ग्रन्थकारेण
गीतगोविन्दकृता ॥ १२९ ॥ चातक इति ॥ यत्तु चातकस्य त्रिचतुरकणमात्रा-
थिं
र्थितया जलदकर्तृकेणाम्भसा विश्वपूरणेन हर्षाधिक्यानाभावादयुक्तमुदाहरण मिति
तत्तुच्छम् । हेत्वसिद्धेः। नहि क्षुदुपशमाय तत्पर्याप्तान्नमात्रार्थिनस्तदधिकान्नलाभे
हर्षाधिक्यं नास्तीति वक्तुं शक्यते । तदानीमुपयोगाभावेऽपि स्वस्यैव कालान्तरे
तदुपयोगसत्त्वात् । नच चातकस्य जलसंग्रहानुपयोगाद्वैषम्यं शङ्कनीयम् ।
चातकवृत्तान्तस्याप्रस्तुततया तद्व्यङ्ग्ये प्रस्तुतदातृयाचकवृत्तान्ते काव्यस्य पर्यव
सानादिति ॥ १३० ॥ तृतीयं प्रभेदमाह -- यत्नादिति ॥ प्रहर्णमित्यनुवर्तते ॥
निध्यञ्जनेति ॥ निधिदर्शनसाधनं यदञ्जनं तत्साधनौषधिमूलमित्यर्थः । साधितो
लब्धः ॥ उच्चित्येति ॥ अधःस्थितं वृक्षस्याधोदेशे स्थितम् । अवस्थित मिति
पाठे समीपाशोकयष्टाववस्थितमित्यर्थः । श्रिता आश्रिता विटपाः शाखा येनेति
पुष्पौघविशेषणम् । अदधादाहितवती । यष्टिः स्कन्धः । तेन पादाघातेन ।
पुनरप्यामूलं पुष्पिताभूत् । अर्थादशोकयष्टिः । अत्रच तदसाध्यकयत्नात्तल्लाभ
 

 
[^
] 'दीपमुद्दीपयेद्यावत्'.
[^
] ' सिद्धार्थात् '.
[^
] 'चेत्'.
[^
] 'खलता'.
[^
] 'आसादितो'.