2023-02-17 12:59:04 by ambuda-bot
This page has not been fully proofread.
प्रहर्षणालंकारः ६७] अलंकारचन्द्रिकासहितः ।
त्विहापि तुल्यम् । तस्मात्सर्वालंकारविलक्षणमिदं ललितम् । यथावा-
क्व सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः ।
तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम् ॥
अत्रापि निदर्शनाभ्रान्तिर्न कार्या । अल्पविषयया मत्या सूर्यवंशं वर्णयि-
तुमिच्छुरहमिति प्रस्तुतवृत्तान्तानुपन्यासात्तत्प्रतिबिम्बभूतस्य उडुपेन सागरं
तितीर्षुरस्मीत्य प्रस्तुतवृत्तान्तस्य वर्णनेनादौ विषमालंकारविन्यसनेन च केवलं
तत्र तात्पर्यस्य गम्यमानत्वात् । यथावा-
१३९
अनायि देशः कतमस्त्वयाद्य वसन्तमुक्तस्य दशां वनस्य ।
त्वदाप्तसंकेततया कृतार्था श्राव्यापि नानेन जनेन संज्ञा ॥
अत्र कतमो देशस्त्वया परित्यक्तः इति प्रस्तुतार्थमनुपन्यस्य वसन्तमुक्तस्य
वनस्य दशामनायीति तत्प्रतिबिम्बभूतार्थमात्रोपन्यासाल्ललितालंकारः॥१२८॥
प्रहर्षणालंकारः ६७
उत्कण्ठितार्थसंसिद्धिर्विना यत्नं प्रहर्षणम् ।
तामेव ध्यायते तस्मै नि॑िसृष्टा सैव दूतिका ॥ १२९ ॥
उत्कण्ठा इच्छाविशेषः ।
'सर्वेन्द्रियसुखास्वादो यत्रास्तीत्यभिमन्यते ।
तत्प्राप्तीच्छां ससंकल्पामुत्कण्ठां कवयो विदुः ॥'
इत्युक्तलक्षणात्तद्विषयस्यार्थस्य तदुपाय संपादनयत्वं विना सिद्धिः प्रहर्षणम् ।
उदाहरणं स्पष्टम् । यथावा-
-
दाव प्रस्तुतप्रशंसा प्रकृते तु ललितमिति ॥ तत्प्रतिबिम्बेति ॥ प्रस्तुतार्थप्रति-
बिम्बरूपस्याप्रस्तुतार्थस्येत्यर्थः । आदौ पूर्वार्धे ॥ विषमेति ॥ स्वमतिसूर्यदशयो-
रत्यन्ताननुरूपत्वरूपेत्यर्थः । तात्पर्यस्य तादृशमतिकरण कसूर्यवंशवर्णनेच्छाभि
प्रायस्य ॥ अनायीति ॥ नलं प्रति दमयन्त्या उक्तिः । हे नल, अद्य लया
कतमो देशो वसन्तमुक्तस्य वनस्य दशामनाथि प्रापितः । त्वयि प्राप्तसंकेततवा
कृतार्था संज्ञा नामाप्यनेन मलक्षणेन जनेन न श्राव्या न श्रवणाही अपितु
श्राव्यैवेति । अत्रच तादृशवनदशारूपस्याप्रस्तुतार्थस्य प्रस्तुते देशे कथनात्प्र-
स्तुतवृत्तान्तस्योक्तरूपस्य प्रतीतिः । नचात्र वारणेन्द्रलीलामितिवत्पदार्थनिदर्शना
युकेति वाच्यम् । तत्र पूर्वार्धेन प्रकृतवृत्तान्तोपादानेन सादृश्यपर्यवसानरूपनि-
दर्शनासत्त्वेऽप्यत्र तदनुपादानेन तद्व्यङ्ग्यताप्रयुक्तविच्छित्तिविशेषवत्त्वेन ललि-
तालंकारस्यैवोचितत्वात् । एतेन दशापदलक्षित निःश्रीकत्वरूपकार्यद्वारेण कार-
णस्य राजकर्तृकत्यागकर्मत्वस्याभिधानात्पर्यायोक्तमित्यपि निरस्तम् । उपधेयसं-
करेऽप्युपाधेरसंकराचेति संक्षेपः ॥ १२८ ॥ इति ललितालंकारप्रकरणम् ॥६६॥
तामेवेति ॥ दूतिका मेवेत्यर्थः । निसृष्टा प्रेषिता । ससंकल्पां मनोरथसहिताम् ।
१ 'विसृष्टा'.