This page has been fully proofread twice.

त्विहापि तुल्यम् । तस्मात्सर्वालंकारविलक्षणमिदं ललितम् । यथावा --
 
क्व सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः ।
तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम् ॥
 
अत्रापि निदर्शनाभ्रान्तिर्न कार्या । अल्पविषयया मत्या सूर्यवंशं वर्णयितुमिच्छुरहमिति प्रस्तुतवृत्तान्तानुपन्यासात्तत्प्रतिबिम्बभूतस्य उडुपेन सागरं तितीर्षुरस्मीत्यप्रस्तुतवृत्तान्तस्य वर्णनेनादौ विषमालंकारविन्यसनेन च केवलं तत्र तात्पर्यस्य गम्यमानत्वात् । यथावा --
 
अनायि देशः कतमस्त्वयाद्य वसन्तमुक्तस्य दशां वनस्य ।
त्वदाप्तसंकेततया कृतार्था श्राव्यापि नानेन जनेन संज्ञा ॥
 
अत्र कतमो देशस्त्वया परित्यक्तः इति प्रस्तुतार्थमनुपन्यस्य वसन्तमुक्तस्य वनस्य दशामनायीति तत्प्रतिबिम्बभूतार्थमात्रोपन्यासाल्ललितालंकारः॥१२८॥
 
--------------

 
प्रहर्षणालंकारः ६७
 
उत्कण्ठितार्थसंसिद्धिर्विना यत्नं प्रहर्षणम् ।
तामेव ध्यायते तस्मै नि[^१]सृष्टा सैव दूतिका ॥ १२९ ॥
 
उत्कण्ठा इच्छाविशेषः ।
 
'सर्वेन्द्रियसुखास्वादो यत्रास्तीत्यभिमन्यते ।
तत्प्राप्तीच्छां ससंकल्पामुत्कण्ठां कवयो विदुः ॥'
 
इत्युक्तलक्षणात्तद्विषयस्यार्थस्य तदुपायसंपादनयत्नं विना सिद्धिः प्रहर्षणम् । उदाहरणं स्पष्टम् । यथावा --
 
[commentary]
 
दावप्रस्तुतप्रशंसा प्रकृते तु ललितमिति ॥ तत्प्रतिबिम्बेति ॥ प्रस्तुतार्थप्रतिबिम्बरूपस्याप्रस्तुतार्थस्येत्यर्थः । आदौ पूर्वार्धे ॥ विषमेति ॥ स्वमतिसूर्यवंशयोरत्यन्ताननुरूपत्वरूपेत्यर्थः । तात्पर्यस्य तादृशमतिकरणकसूर्यवंशवर्णनेच्छाभिप्रायस्य ॥ अनायीति ॥ नलं प्रति दमयन्त्या उक्तिः । हे नल, अद्य त्वया कतमो देशो वसन्तमुक्तस्य वनस्य दशामनायि प्रापितः । त्वयि प्राप्तसंकेततवा
या कृतार्था संज्ञा नामाप्यनेन मल्लक्षणेन जनेन न श्राव्या न श्रवणार्हा अपितु
श्राव्यैवेति । अत्रच तादृशवनदशारूपस्याप्रस्तुतार्थस्य प्रस्तुते देशे कथनात्प्रस्तुतवृत्तान्तस्योक्तरूपस्य प्रतीतिः । नचात्र वारणेन्द्रलीलामितिवत्पदार्थनिदर्शना
युक्तेति वाच्यम् । तत्र पूर्वार्धेन प्रकृतवृत्तान्तोपादानेन सादृश्यपर्यवसानरूपनिदर्शनासत्त्वेऽप्यत्र तदनुपादानेन तद्व्यङ्ग्यताप्रयुक्तविच्छित्तिविशेषवत्त्वेन ललितालंकारस्यैवोचितत्वात् । एतेन दशापदलक्षितनिःश्रीकत्वरूपकार्यद्वारेण कारणस्य राजकर्तृकत्यागकर्मत्वस्याभिधानात्पर्यायोक्तमित्यपि निरस्तम् । उपधेयसंकरेऽप्युपाधेरसंकराच्चेति संक्षेपः ॥ १२८ ॥ इति ललितालंकारप्रकरणम् ॥६६॥
 
तामेवेति ॥ दूतिकामेवेत्यर्थः । निसृष्टा प्रेषिता । ससंकल्पां मनोरथसहिताम् ।
 
[^१] 'विसृष्टा'.