2023-04-27 05:10:03 by Bharadwajraki
This page has been fully proofread twice.
तगतादप्रस्तुतवृत्तान्तरूपाद्वाक्यार्थात्तद्गतप्रस्तुतवृत्तान्तरूपो वाक्यार्थोऽवगम्यत इत्येवातिशयोक्तितो भेदोऽस्तु । वस्तुतस्तु --
'सोऽपूर्वो रसनाविपर्ययविधिस्तत्कर्णयोश्चापलं
दृष्टिः सा मदविस्मृतस्वपरदिक्किं भूयसोक्तेन वा ।
पूर्वं निश्चितवानसि भ्रमर हे यद्वारणोऽद्याप्यसा-
वन्तःशून्यकरो निषेव्यत इति भ्रातः क एष ग्रहः ॥'
इत्याद्यप्रस्तुतप्रशंसोदाहरणे प्रथमप्रतीतादप्रस्तुतवाक्यार्थात्प्रस्तुतवाक्याथोंऽवगम्यत इत्येतन्न घटते । अप्रस्तुते वारणस्य भ्रमरासेव्यत्वे कर्णचापलमात्रस्य भ्रमरनिराकरणहेतुत्वसंभवेऽपि रसनाविपर्ययान्तःशून्यकरत्वयोर्हेतुत्वासंभवेन मदस्य प्रत्युत तत्सेव्यत्व एव हेतुत्वेन च रसनाविपर्ययादीनां तत्र हेतुत्वान्वयार्थं वारणपदस्य दुष्प्रभुरूपविषयक्रोडीकारेणैव प्रवृत्तेर्वक्तव्यत्वात् । एवं सत्यपि यद्यप्रस्तुतसंबोधनादिविच्छित्तिविशेषात्तत्राप्रस्तुतप्रशंसाया अतिशयोक्तितो भेदो घटते तदात्रापि प्रस्तुतं धर्मिणं स्वपदेन निर्दिश्य तत्राप्रस्तुतवर्णनारूपस्य विच्छित्तिविशेषस्य सद्भावात्ततो भेदः सुतरां घटते ॥ 'पश्य नीलोत्पलद्वन्द्वान्निःसरन्ति' 'वापी कापि स्फुरति गगने तत्परं सूक्ष्मपद्या' इत्यादिषु तु प्रस्तुतस्य कस्यचिद्धर्मिणः स्ववाचकेनानिर्दिष्टत्वादतिशयोक्तिरेव । एतेन गतजलसेतुबन्धवर्णनादिष्वसंबन्धे संबन्धातिशयोक्तिरस्त्विति शङ्कापि निरस्ता । तथा सति कस्त्वं भोः कथयामीत्यादावपि तत्प्रसङ्गात्सारूप्यनिबन्धनप्रस्तुतवाक्यार्थावगतिरूपविच्छित्तिविशेषालंकारान्तरकल्पनं
[commentary]
तेत्यर्थः ॥ तद्गतेति ॥ प्रस्तुतगतेत्यर्थः । अप्रस्तुतप्रशंसायां क्वचित्प्रस्तुताप्रस्तुतयोरभेदाध्यवसानमप्यप्रस्तुतवाक्यार्थप्रतीतिकाले दृश्यते । ललिते तु न क्वापीति सुतरामतिशयोक्तितो भेद इत्याह -- सोऽपूर्व इत्यादिना ॥ रसनाविपर्ययः अग्निशापात्करिणां जिह्वापरिवृत्तिः पूर्व विपरीताभिधानं च । कर्णचापलं प्रसिद्धं पिशुनप्रतार्यत्वं च । मदः प्रसिद्धः गर्वश्च । तेन विस्मृता स्वपरयोर्दिङ्मार्ग आप्तानाप्तविभागश्च यया सा दृष्टिः । वारणो गजो वारकश्च । शून्यः सरन्ध्रो धनरहितश्च । करः शुण्डा हस्तश्च । ग्रह आग्रहः । कुतो न घटते तत्राह --
अप्रस्तुत इति ॥ एतच्च भ्रमरासेव्यत्व इत्यस्य विशेषणम् । भ्रमरनिरासकरणस्येति च कर्णचापलमात्रस्येत्यस्य क्रोडीकारः । स्वार्थेन सममभेदाध्यवसायः अप्रस्तुतसंबोधनादिति । आदिना सारूप्यनिबन्धन प्रस्तुतवाक्यार्थावगतिपरिग्रहः । अत्रापि ललितालंकारेऽपि ॥ वर्णनारूपस्येति ॥ चमत्कारितारूपाया विच्छित्तेस्तदवच्छेदकवर्णनारूपत्वमित्यभिप्रायः । कस्यचिन्नेत्रद्वन्द्वादेः । स्ववाचकेन नेत्रादिपदेन । अनिर्दिष्टत्वादप्रतिपादितत्वात् ॥ अतिशयोक्तिरस्त्विति ॥ अतिशयोक्तिरेवास्तीत्यर्थः । तत्प्रसङ्गात्संबोध्यत्वोच्चारयितृत्वयोरसंबन्धेऽपि संबन्धवर्णनादतिशयोक्तिमात्रप्रसङ्गात् । अलंकारान्तरं कस्त्वमित्या-