This page has been fully proofread once and needs a second look.

कुवलयानन्दः । [ललितालंकारः ६६
 
तगतादप्रस्तुतवृत्तान्तरूपाद्वाक्यार्थात्तद्गत प्रस्तुतवृत्तान्तरूपो वाक्यार्थोऽवग-
म्यत इत्येवातिशयोक्तितो भेदोऽस्तु । वस्तुतस्तु -
 
-
 
'सोऽपूर्वी
 
वो रसनाविपर्ययविधिस्तत्कर्णयोश्चापलं
 

दृष्टिः सा मदविस्मृतस्वपरदिक्किं भूयसोक्तेन वा ।

पूर्वं निश्चितवानसि भ्रमर हे यद्वारणोऽद्याप्यसा-
१३८
 

वन्तःशून्यकरो निषेव्यत इति भ्रातः क ए ग्रहः ॥ '

 
इत्याद्यप्रस्तुतप्रशंसोदाहरणे प्रथमप्रतीतादप्रस्तुतवाक्यार्थात्प्रस्तुतवाक्या-
थोंऽवगम्यत इत्येतन्न घटते । अप्रस्तुते वारणस्य भ्रमरासेव्यत्वे कर्णचापल-
मात्रस्य भ्रमरनिराकरण हेतुत्वसंभवेऽपि रसनाविपर्ययान्तःशून्यकरत्वयोर्हे-
तुत्वासंभवेन मदस्य प्रत्युत तत्सेव्यत्व एव हेतुत्वेन च रसनाविपर्ययादीनां
तत्र हेतुत्वान्वयार्थं वारणपदस्य दुष्प्रभुरूपविषयक्रोडीकारेणैव प्रवृत्तेर्वक्तव्य
त्वात् । एवं सत्यपि यद्यप्रस्तुतसंबोधनादि विच्छित्तिविशेषात्तत्रा प्रस्तुतप्रशं-
साया अतिशयोक्तितो भेदो घटते तदात्रापि प्रस्तुतं धर्मिणं स्वपदेन नि-
र्दिश्य तत्राप्रस्तुतवर्णनारूपस्य विच्छित्तिविशेषस्य सद्भावात्ततो भेदः सुतरां
घटते ॥ 'पश्य नीलोत्पलद्वन्द्वान्निः सरन्ति' 'वापी कापि स्फुरति गगने तत्परं
सूक्ष्मपद्या' इत्यादिषु तु प्रस्तुतस्य कस्यचिद्धर्मिणः स्ववाचकेनानिर्दिष्टत्वादति-
शयोक्तिरेव । एतेन गतजलसेतुबन्धवर्णनादिष्वसंबन्धे संबन्धातिशयोक्तिर-
स्
स्त्विति शङ्कापि निरस्ता । तथा सति कस्त्वं भोः कथयामीत्यादावपि तत्प्रसङ्गा-
त्सारूप्यनिबन्धन प्रस्तुतवाक्यार्थावगतिरूपविच्छित्तिविशेपाषालंकारान्तरकल्पनं
 

 
[commentary]
 
तेव्त्यर्थः ॥ तद्गतेति ॥ प्रस्तुतगतेत्यर्थः । अप्रस्तुतप्रशंसायां क्वचित्प्रस्तुताप्रस्तु-
तयोरभेदाध्यवसानमप्यप्रस्तुतवाक्यार्थप्रतीतिकाले दृश्यते । ललिते तु न क्का-
वापीति सुतरामतिशयोक्तितो भेद इत्याह -- सोऽपूर्व इत्यादिना ॥ रसनावि-
पर्ययः अग्निशापात्करिणां जिह्वा परिवृत्तिः पूर्व विपरीताभिधानं च । कर्णचापलं
प्रसिद्धं पिशुनप्रतार्यत्वं च । मदः प्रसिद्धः गर्वश्च । तेन विस्मृता स्वपरयोर्दिङ्मार्ग
आप्तानाप्तविभागश्च यथाया सा दृष्टिः । वारणो गजो वारकश्च । शून्यः सरन्ध्रो
धनरहितश्च । करः झुशुण्डा हस्तश्च । ग्रह आग्रहः । कुतो न घटते तत्राह -
-
अप्रस्तुत इति ॥ एतच्च भ्रमरासेव्यत्व इत्यस्य विशेषणम् । भ्रमर-
निरासकरणस्येति च कर्णचापलमात्रस्येत्यस्य क्रोडीकारः । स्वार्थेन सममभेदाध्य-
वसायः अप्रस्तुतसंवोबोधनादिति । आदिना सारूप्यनिन्धन प्रस्तुतवाक्यार्थावगति-
परिग्रहः । अत्रापि ललितालंकारेऽपि ॥ वर्णनारूपस्येति ॥ चमत्कारितारू-
पाया विच्छित्तेस्तदवच्छेदकवर्णनारूपत्वमित्यभिप्रायः । कस्यचिन्नेत्रद्वन्द्वादेः ।
स्ववाचकेन नेत्रादिपदेन । अनिर्दिष्टत्वादप्रतिपादितत्वात् ॥ अतिशयोक्ति-
रस्त्विति ॥ अतिशयोक्तिरेवास्तीत्यर्थः । तत्प्रसङ्गात्संबोध्यत्वोच्चारयितृत्वयोरसं-
बन्धेऽपि संबन्धवर्णनादतिशयोक्तिमात्रप्रसङ्गात् । अलंकारान्तरं कस्त्वमित्या-