2023-02-17 12:59:04 by ambuda-bot
This page has not been fully proofread.
ललितालंकारः ६६ ] अलंकारचन्द्रिकासहितः ।
ललितालंकारः ६६
वण्यं स्याद्वर्णवृत्तान्तप्रतिबिम्बस्य वर्णनम् ।
ललितं निर्गते नीरे सेतुमेषा चिकीर्षति ॥ १२८ ॥
१३७
प्रस्तुते धर्मिणि यो वर्णनीयो वृत्तान्तस्तमवर्णयित्वा तत्रैव तत्प्रतिबिम्बरू -
पस्य कस्यचिदप्रस्तुतवृत्तान्तस्य वर्णनं ललितम् । यथाकथंचिहाक्षिण्यसमाग-
ततत्कालोपेक्षितप्रतिनिवृत्तनायिकान्तरासक्तनायकानयनार्थं सखीं प्रेषयितु-
कामां नायिकामुद्दिश्य सख्या वचनेन तद्व्यापारमतिबिम्ब भूतगतजल सेतुब
न्धवर्णनम् । नेयमप्रस्तुतप्रशंसा प्रस्तुतधर्मिकत्वात्, नापि समासोक्तिः प्रस्तु-
तवृत्तान्ते वर्ण्यमाने विशेषणसाधारण्येन सारूप्येण वा प्रस्तुतवृत्तान्तस्फूर्त्य भा
वात्, अप्रस्तुतवृत्तान्तादेव सरूपादिह प्रस्तुतवृत्तान्तस्य गम्यत्वात्, नापि
निदर्शना प्रस्तुताप्रस्तुतवृत्तान्तयोः शब्दोपात्तयोरैक्यसमारोप एव तस्याः
समुन्मेपात् । यदि विषयविपयिणोः शब्दोपात्तयोः प्रवर्तमान एवालंकारो
विषयमायोपादानेऽपि स्यात्तदा रूपकमेव भेदेऽप्यभेदरूपाया अतिशयोक्तेर-
पि विषयमाक्रामेत । ननु तर्ह्यत्र प्रस्तुतनायका दिनिगरणेन तत्र शब्दोपात्ता-
प्रस्तुतनीराद्यभेदाध्यवसाय इति भेदे अभेदरूपातिशयोक्तिरस्तु । एवं तर्हि
सारूण्य निबन्धना अप्रस्तुत प्रशंसा विषयेऽपि सैवातिशयोक्तिः स्यात् ।
अप्रस्तुतधर्मिकत्वान्न भवतीति चेत्, तत्राप्य प्रस्तुतधर्मिवाचकपदस्यापि
प्रसिद्धातिशयोक्त्त्युदाहरणेष्विव प्रस्तुतधर्मिलक्षकत्वसंभवात् ॥ नन्वप्रस्तुतप्र-
शंसायां सरूपादप्रस्तुतवाक्यार्थात्प्रस्तुतवाक्यार्थोऽवगम्यते नव्वतिशयोक्ताविव
विषयवाचस्तत्तत्पदै विषया लक्ष्यन्त इति भेद इति चेत्तर्हि इहापि प्रस्तु
स्पदमिति विपमालंकारप्रकरणे त्वयैवाभिधानादित्यलं विस्तरेण ॥ १२७ ॥ इति
मिथ्याध्यवसित्यलंकारः ॥ ६५ ॥
—
प्रस्तुत इति ॥ ललितमिति लक्ष्य निर्देशः । निर्गत इत्युदाहरणम् । दाक्षि
ण्येत्यादिक्तप्रत्ययान्तचतुष्टयं नायकविशेषणम् । दाक्षिण्यमनुरोधशीलवम् ॥
तयापारेति ॥ सखीप्रेषणरूपनायिकाव्यापारस्वरूपेत्यर्थः । सारूप्यं चात्र नैर-
र्थक्यम् । कॢप्तालंकारेष्वन्तर्भावमाशय निराकरोति – नेयमित्यादिना ॥
प्रस्तुताप्रस्तुतेति ॥ तथाच प्रकृतेऽप्रस्तुतवृत्तान्तस्यैवोपादानान्निदर्शना न
युक्तेति भावः । ननूभयोः शब्दोपात्तत्व इवाप्रस्तुतमात्रस्य तत्त्वेऽपि निदर्शना-
स्त्वित्याशङ्कयाह
– यदीति ॥ प्रतिवन्या तावत्परिहरति
- तर्हि सारूप्येति ॥
'एकः कृती शकुन्तेषु योऽन्यं शकान्न याचते' इत्यादावित्यर्थः ॥ अप्रस्तुतेति ॥
अप्रस्तुतस्य शकुन्तादेस्तत्र वर्णनीयत्वादतिशयोक्तिस्थले च वापी कापीत्यादौ
वापीत्वादिना प्रस्तुतनाभ्यादेर्वर्ण्यत्वान्नातिशयोक्तिस्तत्रापादयितुं शक्येति भावः ।
अप्रसिद्धोऽयं हेतुरियाह – तत्रेति ॥ प्रसिद्धेति ॥ वापी कापीत्यादिसर्वसंम-
-
-
१ ' प्रस्तुते वर्ण्यवाक्यार्थ'.