2023-04-27 04:56:59 by Bharadwajraki
This page has been fully proofread twice.
यथावा --
कस्तूरिकामृगाणामण्डाद्गन्धगुणमखिलमादाय ।
यदि पुनरहं विधिः स्यां खलजिह्वायां निवेशयिष्यामि ॥
यद्यर्थोक्तौ च कल्पनमतिशयोक्तिभेद इति काव्यप्रकाशकारः ॥ १२६ ॥
----------------
मिथ्याध्यवसित्यलंकारः ६५
किंचिन्मिथ्यात्वसिद्ध्यर्थं मिथ्यार्थान्तरकल्पनम् ।
मिथ्याध्यवसितिर्वेश्यां वशयेत्खस्रजं वहन् ॥ १२७ ॥
अत्र वेश्यावशीकरणस्यात्यन्तासंभावितत्वसिद्धये गगनकुसुममालिकाधारणरूपार्थान्तरकल्पनं मिथ्याध्यवसितिः । यथावा --
अस्य क्षोणिपतेः परार्धपरया लक्षीकृताः संख्यया
प्रज्ञाचक्षुरवेक्ष्यमाणबधिरश्राव्याः किलाकीर्तयः ।
गीयन्ते स्वरमष्टमं कलयता जातेन वन्ध्योदरा-
न्मूकानां प्रकरेण कूर्मरमणीदुग्धोदधे रोधसि ॥
अत्राद्योदाहरणं निदर्शनागर्भं । द्वितीयं तु शुद्धम् । असंबन्धे संबन्धरूपातिशयोक्तितो मिथ्याध्यवसितेः किंचिन्मिथ्यात्वसिद्ध्यर्थं मिथ्यार्थान्तरकल्पनात्मना विच्छित्तिविशेषेण भेदः ॥ १२७ ॥
--------------
[commentary]
तदा कस्तूरिकामृगाणामण्डादखिलं गन्धरूपं गुणमादाय खलजिह्वायां निवेशयिष्यामीत्यन्वयः ॥ १२६ ॥ इति संभावनालंकारः ॥ ६४ ॥
किंचिदिति ॥ कस्यचिदर्थस्य मिथ्यात्वसिद्ध्यर्थं मिथ्याभूतार्थान्तरकल्पनं मिथ्याध्यवसितिरलंकारः । वेश्यामित्युदाहरणम् । खस्रजं गगनमालाम् । अत्र खपुष्पमालाधारणमिव वेश्यावशीकरणमिति निदर्शनापि बोध्या ॥ अस्येति ॥ परार्धपरया परार्धसंख्यामतिक्रान्तया । लक्षीकृता उपलक्षिताः । प्रज्ञाचक्षुषा अन्धेनावेक्ष्यमाणाश्च ता बधिरश्राव्याश्चेति कर्मधारयः । कलयता कुर्वता । प्रकरेण समूहेन । कूर्मरमणी कच्छपी ।रोधसि तीरे । मिथ्याध्यवसितेरित्यस्य भेद इत्यत्रान्वयः । कल्पनाविच्छित्तिविशेषेण कल्पनाप्रयुक्तविच्छित्तिविशेषेण । कल्पनात्मनेति पाठे कल्पनास्वरूपेणेत्यर्थः । उपधेयसंकरेऽप्युपाधेरसंकरात् । विच्छित्तिविशेषेणेति च तस्यैव विशेषणम् । विच्छित्तेर्विशेषो यस्मादिति, विच्छित्तिं विशेषयति व्यावर्तयतीति वा व्युत्पत्तेः । एतेन प्रौढोक्त्यैव गतार्थतामाचक्षाणा निरस्ता वेदितव्याः । नच मिथ्याध्यवसितेरलंकारान्तरत्वे 'हरिश्चन्द्रेण संजप्ताः प्रगीता धर्मसूनुना । खेलन्ति निगमोत्सङ्गे मातर्गङ्गे गुणास्तव ॥’ इत्यादौ हरिश्चचन्द्रादिसंबन्धाद्गुणानां सत्यताप्रतीतेः सत्याध्यवसितिरपि तथा स्यादिति वाच्यम् । सत्यताप्रतीत्यर्थं कस्याप्यर्थस्य कविप्रतिभाकल्पितत्वाभावेन शब्दमात्रेणालंकारताया असंभवात् । कविप्रतिभामात्रकल्पिता अर्थाः काव्ये अलंकारपदा-