2023-02-17 12:59:03 by ambuda-bot
This page has not been fully proofread.
संभावनालंकारः ६४ ] अलंकारचन्द्रिकासहितः ।
मालिन्यमब्जशशिनोर्मधुलिट्कलङ्क
धत्तो मुखे तु तव हक्तिलकाअनाभाम् ।
दोषावितः वचन मेलनतो गुणत्वं
वक्तुर्गुणौ हि वचसि भ्रमविप्रलम्भौ ॥ १२४ ॥
१३५
प्रौढोक्त्यलंकारः ६३
प्रौढोक्तिरुत्कर्षाहेतौ तद्धेतुत्वप्रकल्पनम् ।
कचाः कलिन्दजातीरतमालस्तोममेचकाः ॥ १२५ ॥
कार्यातिशयाहेतौ तद्धेतुत्वप्रकल्पनं प्रौढोक्तिः । यथा तमालगतनैल्याति-
शयाहेतौ यमुनातटरोहणे तद्धेतुत्वप्रकल्पनम् । यथावा-
कल्पतरुकामदोग्ध्रीचिन्तामणिधनदशङ्खानाम् ।
रचितो रजोभरपयस्तेजःश्वासान्तराम्बरैरेषः ॥
अत्र कल्पवृक्षाद्ये कैक वितरणातिशायिवर्णनीयराजवितरणातिशयाहेतौ क
ल्पवृक्षपरागादिरूपपञ्चभूतनिर्मितत्वेन तद्वेतुत्व प्रकल्पनं प्रौढोक्तिः ॥ १२५ ॥
संभावनालंकारः ६४
संभावना यदीत्थं स्पादित्यूहोऽन्यस्य सिद्धये ।
यदि शेषो भवेद्वक्ता कथिताः स्युर्गुणास्तव ॥ १२६ ॥
सर्व इति ॥ मालिन्यमिति ॥ मधुलि भ्रमरः कलङ्कश्चैतावब्जशशिनो र्मालिन्यं
धत्तः कुरुतः । तव मुखे तु दृक् च तिलकाञ्जनं च तयोराभां शोभां वत्त इत्यनु-
षज्यते । अञ्जनाभे इति पाठे द्वितीयाद्विवचनम् । उक्तमर्थ सामान्येन समर्थय-
ति । दोषावपि क्वचित् मेलनतो मिथो मिलनात् गुणत्वमितः प्राप्नुत इति ।
कथमेतत्तत्राह । हि यतः वक्तुर्वचसि भ्रमविप्रलम्भौ भ्रान्तिप्रतारणे गुणौ भव-
तः । घटवति घटाभावं निर्णीय परप्रतारणाय घटोऽस्तीति प्रयुक्ते वाक्ये प्रमा-
जनकत्वात्तयोर्गुणत्व मिति भावः ॥ १२४ ॥ इति विकस्वरालंकारः ॥ ६२ ॥
प्रौढोक्तिरिति ॥ उत्कर्षस्याऽहेतावुत्कर्षहेतुत्वकल्पनं प्रौढोक्तिः । कलिन्दजा
यमुना । स्तोमः समूहः । मेचका: श्यामाः । रोहणे उद्भवे ॥ कल्पेति ॥ एप
राजा कल्पवृक्षादीनां क्रमेण रजोभरादिभिः पञ्चभी रचित इत्यन्वयः । धनदः
कुबेरः । शङ्खो निधिविशेषः । रजोभरः परागसमूहः । पयो दुग्धम् । श्वासः
प्रसिद्धः । अन्तराम्बरं शङ्खाभ्यन्तरमाकाशम् । अतिशायीत्यग्रिम वितरणेना-
न्वितम् । अहेतौ पञ्चनिर्मितत्वे इति सामानाधिकरण्येनान्वयः ॥ १२५ ॥ इति
प्रौढोत्त्यलंकारः ॥ ६३ ॥
संभावनेति ॥ ऊहस्तर्कः ॥ कस्तूरिकेति ॥ अहं यदि सृष्टिकर्ता स्यां
१ 'रुत्कर्षहेतौ ' . २ 'संभावनं यदित्थं '.